________________ 141 - 274] द्वितीयो गुल्मकाण्डः / शणे तु किङ्कणी जाली [ ] इति / [ शणनामानि / एतस्य लोके 'शण' इति प्रसिद्धिः ] // 272 // कुसुम्भेऽग्निशिख-महारजने कमलत्तोरम् / "कुसुच् श्लेषे" कुस्यति कुसुम्भम् , “का-कुसिभ्यां कुम्भः" [ हैमोणादिसू०३३७ ] इति किदुम्भः; सुम्भिः सौत्रः, को सुम्भ्यते-निकुटयते वा [कुसुम्भः ], पुं-क्लीवलिङ्गः, तत्र / अग्नेरिव शिखाऽस्य अग्निशिखम् / रज्यतेऽनेन रजनम् , "तुदादि-जिवरञ्जि-" हैमोणादिसू० 273] इति किदनः, महच्च तद् रजनं च महारजनम् , क्लीबलिङ्गः / कमलेभ्य उत्तरं-प्रधानं कमलोत्तरम् , वर्णाधिक्यात् / आह चामरः अथ कमलोत्तरम् / स्यात् कुसुम्भं वह्निशिखं महारजनमित्यपि // 10 [का० 2 वर्ग 9 श्लो० 106 ] इति / एतस्य लोके 'कुसुंभउ' इति प्रसिद्धिः / शालपण्या दीर्घमूला त्रिपर्णी पीतनी ध्रुवा // 273 // विदारिगन्धाऽतिगुहा स्थिरी शून्यांशुमत्यपि / - शालस्येव पर्णान्यस्याः शालपर्णी, “पाक-कर्ण-पर्ण-" [सिद्ध 0 2. 4. 55] 15 इति डीः, तस्याम् / दीर्घो मूलोऽस्याः दीर्घमला / त्रीणि पर्णान्यस्याः त्रिपर्णी। पीतयति पीतनी , "धंत् गति-स्थैर्ययोः” ध्रुवति ध्रुवा, अच् // 273 // विदार्या गन्धोऽस्या विदारिगन्धा / “गुहौग संवरणे” अत्यर्थ गृहति अतिगुहा, " नाम्युपान्त्य-" [सिद्ध० 5. 1. 54] इति कः / तिष्ठति स्थिरा, "शुषीषि-" [ हैमोणादिसू० 416 ] इति किदिरः / शुने हिता शून्या "शुनो 3) वश्चोदूत्" [ सिद्ध 0 7. 1. 33] इति यः / अंशवः सन्त्यस्या अंशुमती, दीर्घमूलत्वात् / आह च शालपर्णी स्थिरा सौम्या त्रिपर्ण्यतिगुहा ध्रुवा // विदारिगन्धांशुमती दीघमूला च पीतनी / सर्वानुकारिणी तन्ची दीर्घपर्णी च पर्णिका / 25 [धन्व० वर्ग 1 श्लोक 87, 88, 91] इति / एतस्या लोके 'सावनील' इति प्रसिद्धिः / 1 स्थिरा भौमांशु' नि० //