________________ सटीले निषटुशेषे [२७०सान्याऽश्वस्थफला ध्वाङ्क्षनासिका कच्छुनाशनी // 270 // ... 'सा' इति हयुषा 'अन्या' अपरा अश्वत्थाकाराणि फलान्यस्या अश्वत्थफला। भ्वाङ्गस्येव नासिकाऽस्या ध्वाक्षनासिका / कच्छं नाशयति कच्छुनाशनी / भाह च- . अन्याऽश्वत्थफला कच्छूटनी ध्वासनासिका / [धन्व० वर्ग 2 श्लो० 9] इति / युषाभेदोऽयम् // 270 // घण्टारवायां स्यान्माल्यपुष्पिका शणघण्टिका / अल्पघण्टा बृहत्पुष्पी शणपुष्पी महाशणः // 271 // 10 घण्टेव खोऽस्याः घण्टारवा, तस्याम् / माल्यमिव पुष्पाण्यस्या माल्यपुष्पी, के माल्यपुष्पिका / शणाकारा घण्टिकेव शणघण्टिका / अल्पा चासौ घण्टा च अल्पघण्टा / बृहन्ति पुष्पाण्यस्याः बृहत्पुष्पी, " असत्काण्ड-प्रान्त-" [ सिद्ध 0 2.4.56 ] इति ङीः / शणस्येव पुष्पाण्यस्याः शणपुष्पी, "असत्काण्ड-प्रान्त-" [ सिद्ध 0 2.4.56 ] इति ङीः / महांश्चासौ शणश्च महाशणः / आह च15 शणपुष्पी बृहत्पुष्पी स चोक्तः शणघण्टकः / महाशणो माल्यपुष्पी वामनी कटुतिक्तका // [धन्व० वर्ग 1 श्लो० 200 ] इति / शणपुष्पीनामानि / लोके तु 'घूघरु' 'शेणहली' इति वा प्रसिद्धिः // 271 // शणे तु किङ्कणी जाली जन्तुतन्तुर्महाशणः। 20 शीघ्रप्ररोही बलवान् सुपुष्पः क्षेत्रमण्डनः // 272 // "शण् श्रण मदने" इति कविकल्पद्रुमधातुपाठोक्तेः शणयति शणः, तत्र / कङ्कते-याति किङ्कणिः, “कङ्केरिच्चास्य वा" [ हैमोणादिसू० 639 ] इति अणिः, थातोरकारस्य चेकारः, विकल्पेन ड्यां किङ्कणी / जालमस्त्यस्या जाली / जन्तुमयास्तन्तवोऽस्य जन्तुतन्तुः / द्वे नाम्नी इत्येके / महांश्चासौ शणश्च महा25 शणः। शीघ्रं प्ररोहति अवश्यं शीघ्रप्ररोही, “णिन् चावश्यका-" [ सिद्ध 0 5.4. 36 ] इति णिन् / बलं विद्यतेऽस्य बलवान् / शोभनानि पुष्पाण्यस्य सुपुष्पः / क्षेत्रं मण्डयति क्षेत्रमण्डनः / आह च