________________ 270] द्वितीयो गुल्मकाण्डः। 147 . काकस्येव नासाऽस्याः काकनासा, तस्याम् / शोभनो रङ्गोऽस्याः सुरङ्गा / वायसस्येयं वायसी, " तस्येदम्" [ सिद्ध 0 6.3.160 ] इत्यण, तदाभत्वात् / वायसस्येवाङ्गभासारूपं फलमस्याः वायसाङ्गी, स्वार्थिके के वायसाङ्गिका // 268 // . वरुणस्येयं वारुणी, "तस्येदम्" [ सिद्ध०६.३.१६० ] इत्यण् / तस्कर इव तस्करा / स्नायति-वेष्टयति स्नायुः, “कृ-वा-पा-जि-" [ हैमोणादिसू० 1] / इत्युण् / काकतुण्डमिव फलमस्याः काकतुण्डफला / आह च काकनासा ध्वाश्नासा काकतुण्डफला च सा / सुरङ्गा तस्करा स्नायुङ्कितुण्डफला मता // 1 [धन्व० वर्ग 4 श्लो० 25 ] इति / एतस्या लोके 'कायणी' इति प्रसिद्धिः / पाषाणभेदे वृषभः शिलाभिच्चित्रपर्णकः // 269 // पाषाणो भिद्यतेऽनेन पाषाणभेदः, तत्र / वर्षति वृषभः, "ऋषि-वृषि-" [ हैमोणादिसू० 331 ] इति किदभः / शिलां भिनत्ति शिलाभित् / चित्राणि पर्णान्यस्य चित्रपर्णकः / आह चपाषाणभेदकोऽश्मनः शिलाभेदोऽश्मभेदकः / 15 स चैवोपलभेदश्च नगविध्वंसकोऽश्मभित् // [धन्व० वर्ग 2 श्लो० 157 ] इति / एतस्य लोके 'पाषाणभेद' इत्येव प्रसिद्धिः // 269 // हयुषायां विस्रगन्धा "हय क्लान्तौ च" हयति हयुषा, "ऋ-प-नहि-हनि-" [ हैमोणादिसू० 557] 30 इत्यादिना उषः प्रत्ययः, तस्याम् / विस्रो गन्धोऽस्या विस्रगन्धा / विगन्धा वपुषा च सा / 'च' पुनः 'सा' हयुषा 'विगन्धा' गन्धरहिता "टुवपी बीजसन्ताने" उप्यते वपुषा, "ऋ-पृ-नहि-हनि-" [ हैमोणादिसू० 557] इत्युषः / अनयोलोके 'हउंसि' इति प्रसिद्धिः / धन्वन्तरिस्तु अभेदेन आह 25 हयुषा वपुषा विस्रा विनगन्धा विगन्धिका / अपरा [ धन्व० वर्ग 2 श्लो० 9] इति / 1 ०णमेदे नगभिच्छिलामृरिच नि० // 2 वपुषा मत्स्यगन्धिनी नि० //