________________ सटीके निघण्टुशेषे [२६७प्रलम्बत्वात् / वारि-वालकं तदिव पत्राण्यस्याः वारिपत्री, के वारिपत्रिका / जतुका प्राग्वत् / रामठीत्यत्र "अणजेये-" [ सिद्ध 0 2.4.20 ] इति ङीः / वंशपत्री वंशपत्राकारा / पिण्डा पिण्डत्वात् / शिवमटति शिवाटिका / / 266 // __ कारोरियं कारवी संस्कर्वी, "तस्येदम्” [ सिद्ध 0 6.3.160 ] इत्यण् / 5 कबर्याकृतित्वात् कबरी / बर्बरी च पाठभेदः / तन्वी सूक्ष्मत्वात् / “बाष्पं स्रवति * वाष्पिका" इति क्षीरस्वामी / बिल्वीव बिल्विका / आह च-..... हिमुपत्री तु कारवी पृथ्वीका पृथुका पृथुः / बाष्पिका दीर्घिका तन्वी बिल्विका दारुपत्रिका // नाडी हिङ्गुपलाशा च जतुका रामठी रसा / 10 1 [धन्व० वर्ग 2 श्लो० 38,40] इति / एतस्या लोके 'हिंगुउत्री' इति प्रसिद्धिः / / काकज़वायां तु दासी लोमहीना प्रचीवला // 267 // नदीकान्ता नद्याख्या च पारापतपदीत्यपि / 15 काकस्येव जङ्घा अस्याः काकजङ्गा, तस्याम् / “दासृग् दाने" दन्त्यान्तः, ___ दासते दासी, अच् , गौरादित्वाद् ङीः / लोमभिहींना लोमहीना / अत एव लोमशा / “चिंगट् चयने" प्रचिनोति प्रचीबला, "तुल्वलेल्वलादयः" [ हैमोणादिसू० 500 ] इति बले निपात्यते // 267 // ___ नद्यां कान्ता नदीकान्ता / नदीत्याख्या अस्याः नद्याख्या। पारापत इव 30 पदान्यस्याः पारापतपदी / आह च काकजचा ध्वाङ्कजङ्घा मदध्वाङ्क्षा सुलोमशा / पारापतपदी दासी नदीकान्ता प्रचीबला // [ धन्व० वर्ग 4 श्लो० 23 ] इति / एतस्या लोके 'कालउघाडउ' इति प्रसिद्धिः / काकनासायां सुरङ्गा वायसी वायसाङ्गिका // 268 // वारुणी तस्करा स्नायुः काकतुण्डफला च सा /