________________ 267] द्वितीयो गुल्मकाण्डः / तालपणी, “पाक-कर्ण-पर्ण-" [ सिद्ध 0 2. 4.55 ] इति ङीः। शोभनो मूलोऽस्याः सुमूला / बलं ददाति बलदा / शिवा निरुपद्रवा / आह च-. मुसली खलिनी तालपत्री काञ्चनपुष्पिका / महावृष्या वृष्यकन्दा खर्जूरी तालमूलिका // [ ] इति / एतस्या लोके 'मुसली' इति प्रसिद्धिः // 264 // हिङ्गौ जतुक-वाल्हीका-ऽगूढगन्धानि रामठम् / सहस्रवेधि भूतघ्नं जरणं सूपधूपनम् // 265 // "हिंट गति-वृद्धयोः” हिनोति नासां हिङ्गः, पुं-क्लीबलिङ्गः, “हेर्हिन् च" [ हैमोणादिसू० 760 ] इति गुः, तत्र / जायते जतुकम्, “कञ्चुकांशुक-" [हैमोणादि- 10 सू० 57] इत्युके निपात्यते / वाल्हीके-उदीच्यदेशे भवं वाल्हीकम् , “कोपान्त्यात्" [ सिद्ध 06.3.56 ] इत्यण् / अगूढः-अगुप्तो गन्धोऽस्य अगूढगन्धम् / रमठेउदीच्यदेशे भवं रामठम् , "भवे' [ सिद्ध 0 6.3.123 ] इत्यण् / सहस्रं-बहु वेधयति सहस्रवेधि / भूतान् हन्ति भूतघ्नम् / जीर्यतेऽनेन जरणम् , क्लीबलिङ्गः / सूपस्य-अहितस्य धूपनं सूपधूपनम् / आह च हिङ्गु रामठमत्युग्रं जन्तुघ्नं भूतनाशनम् / अगूढगन्धं वाल्हीकं जरणं सूपधूपनम् // [धन्व० वर्ग 2 श्लो०३६ ] इति / एतस्य लोके 'हिङ्गु' इति प्रसिद्धिः // 265 // हिमुपत्र्यां पृथुः पृथ्वी दीर्घिका वारिपत्रिका / जतुका रामठी वंशपत्री पिण्डा शिवाटिका // 266 / / कारवी केबरी तन्वी बाष्पिका बिल्विकेत्यपि / हिङ्गोः पत्री. हिडपत्री, तस्याम् / प्रथते पृथुः, “रभि-प्रथिभ्यामृच्च रस्य" [ हैमोणादिसू० 730] इति सूत्रेण " प्रथिष् प्रख्याने " इत्यस्मात् किदुः प्रत्ययो रेफस्य च ऋकारः, "स्वरादुतः-' [सिद्ध 02.4.35] इति या पृथ्वी / दीपिका 25 1 करवी तन्वी नि० // 15 90.