________________ सटीके निघण्टुशेषे [श्लो० ३६४महती चासौ बला च महाबला, तस्याम् / बला एव बलिका / पुष्पाणि सन्त्यस्याः पुष्पिका, “अतोऽनेकस्वरात्" [सिद्ध 07.2.6] इतीकः / पीता चासौ पुष्पिका च पीतपुष्पिका // 261 // देवान् सहते देवसहा / सह दीव्यति सहदेवा / अतिरिक्तं बलमस्याः 5 अतिबला / वाटयं–वेष्टनीयं पुष्पमस्याः वाट्यपुष्पी, के वाटयपुष्पिका / ऋष्यैः मृगैः प्रोक्ता ऋष्यमोक्ता। ऋक्षस्य इव गन्धोऽस्याः ऋक्षगन्धा / "कंकुङ् गतौ" कङ्कते कङ्कता, "-पृ-भू-मू-शी-" [ हैमोणादिसू० 207 ] इत्यादिना / किदतः / वर्षे पुष्प्यति वर्षपुष्पिका // 262 // ___ वाट्यमयते वाटयायनी / भूरि बलमस्याः भूरिबला / तिष्या मङ्गल्या / / 10 वीरे साध्वी वीर्या, "तत्र साधौ” [ सिद्ध 0 7. 1. 15] इति यः। बृहद् बल मस्या बृहद्वला / बृहत्फला इत्येके / महान् गन्धोऽस्या महागन्धा / गन्धस्य वल्ली गन्धवल्ली। मङ्गले साधुर्मङ्गल्या, “तत्र साधौ" [ सिद्ध 0 7.1. 15 ] इति यः / प्रसाध्यति प्रसाधनी / आह च महाबला वर्षपुष्पी तथा वाट्यायनी स्मृता / सहदेवी देवसहा पीतपुष्पी बृहत्फला / बलिकाऽतिबला ज्ञेया वाट्यपुष्पी च कङ्कता / ऋष्यप्रोक्ता ऋक्षगन्धा सैव भूरिबला मता // [ धन्व० वर्ग 1 श्लो० 282, 286 ] इति / एतद् बलात्रितयं ज्ञेयम् / यदवाद्येतस्य गुणाधिकारे20 . वात-पित्तापहं ग्राहि बल्यं वृष्यं बलात्रयम् // धन्व० वर्ग 1 श्लो० 287 ] इति // 263 // मुसल्यां तु तालमूली दुर्नामारिर्महावृषा। वृष्यंकन्दा तालपर्णी सुमूला बलदा शिवा // 264 // 'मुसच् खण्डने" दन्त्यान्तः, मुस्यति मुसली, "तृपि-वपि-" हैमोणादिसू० 25 468] इति किदलः, तस्याम् / ताल इव मूलोऽस्याः तालमूली। दुष्टो नामः- नमनमस्या दुर्नामा आबन्तः, अर्शोरुक, तस्या अरिः- नाशनाद् दुर्नामारिः। महती वृषा महाषा / वृष्यः कन्दोऽस्या वृष्यकन्दा / ताले पर्णान्यस्याः 1 हाविषा नि० //