________________ [श्लो० २८५मांसरोहायां विकसा वृन्ता चर्मकशा रहा // 285 // मांसे रोहः-प्ररोहोऽस्याः मांसरोहा, तस्याम् / विकसति विकसा / वृणोति वृन्ता, “पुत-पित्त-" [ हैमोणादिसू० 204 ] इति ते निपात्यते / चर्मकशेव चर्म 5 आह च-- मांसरोहिण्यतिरुहा वृन्ता चर्मकशा कशा / विकसा मांसरोहा च रुहा रक्ता प्रकीर्तिता // [ धन्व० वर्ग 4 श्लो० 94 ] इति / एतस्या लोके 'रोहा' इति प्रसिद्धिः // 285 // 10 रक्तपाद्यां नमस्कारी समाङ्गाऽञ्जलिकारिका। गण्डकाली शमीपत्रा रास्ना खदिरिका च सा // 286 // रक्तः पादोऽस्याः रक्तपादी, तस्याम् / नमस्करोति नमस्कारी / समान्यगान्यस्याः समाङ्गा / अञ्जलिं कारयति अब्जलिकारिका, अञ्जलितपत्रत्वात्, णके आप् / गण्डेषु–ग्रन्थिषु काली गण्डकाली। शम्याकाराणि पत्राण्यस्याः शमीपत्रा। 15 रसत्यनया रास्ना, "रसेर्वा" [ हैमोणादिसू० 260 ] इति विकल्पेन णिद् नः / "खद हिंसायाम्" खदति खदिरी, “मदि-मन्दि-" [ हैमोणादिसू० 412 ] इति इरः, गौरादित्वाद् ङीः, स्वार्थिके के खदिरिका / आह च-- रक्तपादी शमीपत्रा समाङ्गाऽञ्जलिकारिका / नमस्कारी गण्डकाली नाम्ना(? रास्ना) खदिरिका मता // [धन्व० वर्ग 4 श्लो० 109 ] इति / एतस्या लोके 'खयरी' इति प्रसिद्विः // 286 // तविशेषस्त्रिपादी स्यात् सुपादी हंसपादिका। विषग्रन्थिहंसपदी घृतमण्डलकोऽपि च // 287|| तस्याः-रक्तपाद्या विशेषस्तद्विशेषः ‘स्याद्' भवेत् त्रयः पादा अस्यास्त्रिपादी / 25 शोभनाः पादा अस्याः सुपादी / हंस इव पादा अस्या हंसपादी, के हंसपादिका / विषयुक्तो ग्रन्थिरस्या विषग्रन्थिः / हंस इव पदमस्या हंसपदी / घृतस्य मण्डलकः घृतमण्डलकः। आह च 1 वृत्ता चर्मकषा रुहा नि० // 2 °मण्डलिकाऽपि नि० //