________________ सटीके निघण्टुशेषे [ श्लो० ६५८गन्धवर्णा सितः पुष्पैः 'चः' पुनः 'सा' सहदेवा 'सितैः पुष्पैः' इति श्वेतकुसुमैः गन्धेन वय॑ते गन्धवर्णा, उच्यते इति शेषः / / विश्वदेवा तु साऽरुणैः // 25 // 5 'तुः पुनरर्थे / 'सा' सहदेवा 'अरुणैः' इति रक्तैः पुष्पैः विश्वे दीव्यति विश्वदेवा उच्यते / एतस्याः ‘सहदेवी' इति प्रसिद्धिः // 258 // .. पर्पटके वरतिक्तो रेजको रजनामकः / “पृश् पालन-पूरणयोः” पृणाति पर्पटः, "कपट-कीकटादयः" हैमोणादिसू० 144] इत्यटे निपात्यते, स्वार्थिके के पर्पटकः, तत्र / वियते वरः, वरश्चासौ 10 तिक्तश्च वरतिक्तः। द्वे नाम्नी इत्यपरे / रजति रजकः, "नृत्-खन्-रञ्जः शिल्पिन्यकट्" [सिद्ध 0 5.1.65] इत्यकट् / रजस्य नामाऽस्य रजनामकः, अत्र रजशब्दोऽकारान्तः / तेन रेणुः पांसुरित्यादीनि / आह च पर्पटः स्यात् पर्पटको वरतिक्तश्च नामतः / / रजो रेणुश्च पांसुश्च कवचश्चमकण्टकः // [धन्व० वर्ग 1 श्लो० 45] कल्याणकश्च विज्ञेयः पर्पटो नामभिर्बुधैः / एकपुष्पोऽतिसारश्च चरको ज्वरनाशनः // [ ] इति / एतस्य लोके 'पीतपापडा' इति प्रसिद्धिः / .. 30 गोजिह्वायां शृङ्गबेरी दार्विका भूमिकालिका // 259 // गोजिहा गोजिह्वाभपत्रा, तस्याम् / “शृश् हिंसायाम्" शृणाति रोगान् शृङ्गबेरी, "शतेरादयः" [ हैमोणादिसू० 432] इति केरे निपात्यते; शृङ्गोपलक्षितं बेरं-देहोऽस्या इति वा / दारयति रोगान् दार्वी, इणाति वा, “कृ-वा-पा-जि-" [हैमोणादिसू० 1] इत्युण , गौरादित्वाद् ङीः, स्वार्थिके के दार्विका / भूमौ कालिकेव भूमिका25 लिका / आह च-- गोजिह्वा गोजिका गोभी दार्विका खरपर्णनी / ] इति / 1 रजः कवचनामकः नि० //