________________ द्वितीयो गुल्मकाण्डः। "लटि-खटि-" [ हैमोणादिसू० 505] इति वः / कारोरियं कारवी, कर्मण्येत्यर्थः, "तस्येदम्" [सिद्ध 06.3.160] इत्यग् / बस्तस्येव गन्धोऽस्या बस्तगन्धा / हस्तिनं मीनाति हस्तिमयूरकः, ."मी-मसि-" हैमोणादिसू० 427] इत्यूरे स्वार्थिक के च साधुः // 256 // दीप्यते दीप्यः अग्निदीपनः / वल्लीव वल्ली। ब्रह्मदर्भ इव ब्रह्मदर्भः, तदा- 5 भत्वात् / लोच्यते लुच्यते वा मर्कटोऽनेन लोचमर्कटः। आह च-- अजमोदा बस्तमोदा दीप्यको लोचमस्तकः / खराश्वा कारवी वल्ली मोचा हस्तिमयूरकः // [धन्व० वर्ग 2 श्लो० 98 ] इति / चन्द्रोऽप्याह अजमोदा ब्रह्मकुशा खराश्वा लोचमर्कटः / ] इति / एतस्या लोके "अजमोद" इति प्रसिद्धिः / दोषदुष्टो यवो यवानी, “यव-यवना-ऽरण्य-हिमाद् दोष लिप्युरु-महत्त्वे" [सिद्ध 0 2. 4. 65] इति ङीः आन् चान्तः, तस्याम् / उग्रो गन्धोऽस्याः उपगन्धा / यच्छत्यग्निमान्यं यमानी, “विदन-गगन-" [हैमोणादिसू० 275] इत्यने निपात्यते / यवस इत्यायोऽस्याः यवसाहया / आह च यवानी दीपको दीप्यो यवसाह्वा यवानिका / धन्व० वर्ग 2 श्लो० 91 ] इति / एतस्या लोके 'यवानि' इति प्रसिद्धिः // 257 // सहदेवायां तु दण्डोत्पला गोवन्दनी सह दीव्यति सहदेवा, अजादित्वादाप् , तस्याम् / दण्डाकाराणि उत्पला- 25 न्यस्या दण्डोत्पला / गवि-भूमौ वन्द्यते गोवन्दनी / च सा। 1 ०देव्यां तथा दण्डो0 नि० //