________________ द्वितीयो गुल्मकाण्डः। 139 एतस्य लोके 'दमनउ' इति प्रसिद्धिः / धतूरे धूर्त-धुत्तूरौ कितवो देवता शठः // 252 // घण्टापुष्पस्तलफलो मातुलः कनकाह्वयः / उन्मत्तो मदनश्च धयति दधाति वा धातून् धत्तुरः, “सिन्दूर-कर्चुर-" [ हैमोणादिसू० 430] 5 इत्यूरे निपात्यते, तत्र / “धुर्वै हिंसायाम्” धूर्वति धूर्तः, "शी-री-" [हैमोणादिसू०२०१] इति कित् तः। धुनोति धुत्तरः, “सिन्दूर-" [ हैमोणादिसू० 430] इत्यूरे निपात्यते / "कित निवासे” इत्यस्य "किति-कुडि-" / हैमोणादिसू० 518] इति किदवे कितवः। दीव्यति देवः, देव एव देवता, "देवात् तल्" [ सिद्ध 0 7.2.162 ] इति तल् / “शठ कैतवे च" शठति शठः // 252 / / 10 घण्टाकाराणि पुष्पाण्यस्य घण्टापुष्पः। तले फलान्यस्य तलफलः। माऽस्ति तुलाऽस्य मातुलः, “अ-मा-नो-नाः प्रतिषेधे" इत्युक्तत्वात् / कनकस्य आह्वयोऽस्य कनकाहयः / उन्मत्तः, उन्मादकत्वात् / मदयति मदनः / आह च धत्तूरकः स्मृतो धूर्तो देवता कितवः शठः / उन्मत्तको मदनकतरुस्तलफलस्तथा // 15 [धन्व० वर्ग 4 श्लो० 7 ] इति / एतस्य लोके 'धत्तूरउ' इति प्रसिद्धिः / अस्य फलं मातुलपुत्रकम् // 253 / / 'अस्य' इति धत्तुरस्य फलं मातुलस्य पुत्रकमिव मातुलपुत्रकम् / यतो धन्वतरिः “मातुलं धत्तूरं मातुलपुत्रकं च तत्फलम्" आह / यदमरः- 30 अस्य फले मातुलपुत्रकः // [ का० 2 वर्ग 4 श्लो० 78 ] इति // 253 // शवपुष्प्यां क्षीरपुष्पी शिवा ब्राह्मी किरीटिनी / मधुपुष्पी मधुगन्धा शङ्खाह्नः शङ्खमालिनी // 25 // धूसरच्छदना श्वेतपुष्पी वनविलासिनी / शङ्खवर्णं पुष्पमस्याः शङ्खपुष्पी, "असत्काण्ड-प्रान्त-" [ सिद्ध 0 2.4.56 ] 25 इति ङीः, तस्याम् / क्षारवर्णं पुष्पमस्याः क्षीरपुष्पी / शिवा निरुपद्रवा / ब्रह्मण . इयम् ब्राह्मी / किरीटोऽस्त्यस्याः किरीटिनी / मधूनि पुष्पाण्यस्याः मधुपुष्पी /