________________ 10 138 सटीके निघण्टुशेषे [श्लो० २५१द्रवत्यस्याः स्पर्शाज्जनो द्रोणी, "द्रोर्वा” [ हैमोगादिसू० 184 ] इति णः प्रत्ययः, गौरादित्वाद् ङीः / क्लीतर्क-विनिमयोऽस्त्यस्याः क्लीतकिका, “अतोऽनेकस्वरात्" [सिद्ध० 7.2.6 ] इतीकः / ग्रामे भवा ग्राम्या, "भवे" [ सिद्ध० 6.3.123 ] इति यः / ग्रामीणेयेत्यपि / नीलाः केशा अस्या नीलकेशी / 5 महान् रसोऽस्या महारसा / आह च नीलिनी नीलिका काली ग्राम्या तूणी विशोधनी / तुत्था श्रीफलिका मेला भारवाही च रञ्जनी // [धन्व० वर्ग 1 श्लो० 232 ] इति / तथा च नीली काली क्लीतकिका ग्रामीणा मधुपर्णिका / रजनी श्रीफली तुत्था द्रोणी दोला च नीलिनी / / [ अमर० का० 2 वर्ग 4 श्लो० 94-95 ] इति / , नीलीनामानि / लोके तु 'गुली' इति प्रसिद्धिः / . दमने स्याद् ब्रह्मजटा मुनिर्दान्तर्षिपुत्रको // 251 // गन्धोत्कटः पुण्डरीकः पाण्डुरागस्तपस्व्यपि / दाम्यति दमयति वा दमनः, तत्र / ब्रह्मणो जटेव ब्रह्मजटा / मुनिः, ऋषिपुत्रत्वात् / दम्यते दान्तः, वेट्त्वात् क्तयोर्नेट् / ऋषीणां पुत्रः ऋषिपुत्रः, के ऋषिपुत्रकः // 251 // गन्धेन उत्कटः गन्धोत्कटः / “पुणत् शुभे" पुणति पुण्डरीका; "पुडु 30 प्रमर्दने" पुण्ड्यते वा, "सुगीका-ऽस्तीक-" [ हैमोणादिसू० 50 ] इतीके निपात्यते / पाण्डुरमङ्गमस्य पाण्डुराजः / तपस्वी मुनित्वात् / आह च दमनो मदान्तो दमो दान्तो मुनिसुतो मुनिः / गन्धोत्कटो दमनको विनीतः कुलपुत्रफः // __] इति / तथा च - दमनकं पाण्डुराङ्गं दान्तं गन्धोत्करं मुनिम् / पुण्डरीकं ब्रह्मजटमृषिपुत्रं तपस्विनम् // { धन्व० वर्ग 3 श्लो० 64 ] इति /