________________ 137 25 // द्वितीयो गुल्मकाण्डः। एतस्य लोके 'चित्रक' इति प्रसिद्धिः // 248 // वासन्त्यां स्यात् प्रहसन्ती सुवसन्ता वसन्तजा / सेव्याऽलिबान्धवा शीतसंवासा शीकरा च सा // 249 // वसन्ते भवा वासन्ती, “भर्तु-सन्ध्यादेरण्" [सिद्ध 0 6.3.89 ] इत्यण् / वसन्ते पुष्पति वा, ऋत्वग् , “अगोये-” [सिद्ध 0 2.4.20 ] इति ङीः, तस्याम् / / प्रहसति प्रहसन्ती, शतृप्रत्ययः। शोभनो वसन्तोऽस्याः सुवसन्ता / वसन्ते जाता वसन्तजा, “कचिद्" [ सिद्ध 0 5.1.171 ] इति डः / सेव्या सेवनीया / अलीनां-भ्रमराणां बान्धवा अलिबान्धवा / शीते संवासोऽस्याः शीतसंवासा / शीकते–सिञ्चतीव शीकरा, "ऋच्छि-चटि-वटि-" [ हैमोणादिसू० 397 ] इत्यरैः / आह च ____10 वासन्ती प्रहसन्ती च सुवसन्ता वसन्तजा / शीकरा शीतसंवासा सेव्या भ्रमरबान्धवा // [धन्व० वर्ग 5 श्लो० 139 ] इति / [ वासन्तीनामानि ] // 249 // नील्यां श्रीफलिका कोली दोला मेला विशोधनी। 15 तूणी तुत्था भारवाही रजनी मधुपणिका // 250 // द्रोणी क्लीतकिका ग्राम्या नीलकेशी महारसा / “णील वर्गे" नीलति नीली, "नीलात् प्राण्यौषध्योः" [ सिद्ध 0 2.4.27] इति ङीः, तस्याम् / श्रीप्रधानानि फलान्यस्याः श्रीफली, स्वाथिके के श्रीफलिका रम्यफला / काली वर्णेन / दोल्यते दोला, मेल्यते मेला, उभयत्र "भीषि-भूषि-" 20 [ सिद्ध 0 5.3.109 ] इति बहुवचनादङ् / विशोध्यते विशोधनी / “तूणण् सङ्कोचने" तूण्यते तूणी; "तुक् वृत्त्यादिषु" इत्यस्मात् " स्था-क्षुतोरूच्च" [ हैमोणादिसू०' 185] इति णे प्रत्यये ऊकारे अन्तादेशे च वा तूणी / तुद्यते तुत्था, "नी-नु-रमि-” [ हैमोणादिसू० 227 ] इति सूत्रेण "तुदीत् व्यथने" इत्यस्मात् कित् थः प्रत्ययः / भारं वहति भारवाही, कर्मण्यण् / रञ्जयति-नीलीक- 25 रोति रजनी / मधूनि पर्णान्यस्याः मधुपर्णी, "पाक-कर्ण-पर्ण-" [ सिद्ध० 2. 4.55 ] इति ङीः, के मधुपणिका // 250 // 1 सीतप्लावसा नि० // 2 काला नि० अमरे च // 3 तुच्छा नि० //