SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 136 सटीके निघण्टुशेषे [ग्लो० २४७तथा च अमरसिंहः-- सहा कुमारी तरणिरम्लानस्तु महासहा // तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः / नीली झिण्टी द्वयोर्बाणा दासी चाऽऽर्तगलश्च सा // . सैरेयकस्तु झिण्टी स्यात् [तस्मिन् कुरवकोऽरुणे / पीता कुरण्टको झिण्टी ] तस्मिन् सहचरी द्वयोः // [का० 2 वर्ग 4 श्लो० 73-75 ] इति / एतस्य लोके "कंटासेलउ” इति प्रसिद्धिः / किङ्किराते किङ्किराटः पीतभद्रः प्रलोभ्यपि // 24 // 1 . कुत्सितं किरति किङ्किरातः, “कृ-वृ-कल्यलि" [ हैमोणादिसू० 209] इत्या तक; किञ्चित् किरातः-खो वा, तत्र / "किरो लश्च वा" [ हैमोणादिसू० 147 ] इति किदाटे प्रत्यये किङ्किराटः / पीतश्चासौ भद्रश्च पीतभद्रः / प्रलुभ्यतीत्येवं शीलः प्रलोभी, "अजातेः शीले” [ सिद्ध 0 5.1.154 ] इति णिन् // 247 // चित्रके वल्लरी व्यालः पाठीनो दारुणः कुटः / 15 ज्योतिष्को जरणोऽग्न्याख्यो वलिन द्वीपि-पाठिनः // 248 // चेतति चित् , चितः-जन्तून् त्रायते चित्रः, “क्वचित्" [ सिद्ध० 5.1. "171 ] इति डः, स्वार्थिक के चित्रकः, तत्र / “वलि वल्लि संवरणे" वल्लते वल्लरी, “जठर-क्रकर-" [ हैमोणादिसू० 403 ] इत्यरे निपात्यते / विशेषेण आ–समन्ताद् अडति लाति वा व्यालः, अत्र डस्य लत्वमैक्यात् / पठति पाठीनः, 20 “पठेर्णित्" [ हैमोणादिसू० 287 ] इति णिदीनः / “दृश् विदारणे" णौ दारयति दारुणः, "ऋ-कृ-व-धृ-दारि य उणः” [ हैमोणादिसू० 196 ] इति उणः। “कुटत् कौटिल्ये" कुटति कुटः, "नाम्युपान्त्य" [ सिद्ध 0 5.1.54 ] इति कः / ज्योतिरेव ज्योतिष्कः। जीर्यते अनेन जरणः / अग्नेराख्याऽस्य अग्न्याख्यः / वलि:-त्वक्सङ्कोचोऽस्त्यस्य वलिनः, अङ्गादित्वान्नः। द्वीपोऽस्त्यस्य द्वीपी / पाठो25 ऽस्यास्तीति पाठी / आह च चित्रको दहनो व्यालः पाठीनो दारुणोऽग्निकः / . . ज्योतिष्को वल्लरी वह्निः पाठी पाली कुटः शिखी // [ धन्व० वर्ग 2 श्लो० 80 ] इति /
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy