________________ द्वितीयो गुल्मकाण्डः। 135 पीतपुष्पः। “रण्टिः प्राणहरणे" सौत्रः, को रण्टति कुरण्टकः, “को रु-रुण्टिरण्टिभ्यः" [ हैमोणादिसू० 28 ] इत्यकः प्रत्ययः / “को रम्यते कुरण्टकः" इति क्षीरस्वामी / कुरण्डकोऽपि / आह च अमिलातोऽपरिम्लानस्तथैवाऽम्लातकः स्मृतः / रक्तपुष्पः कुरबकः पीतपुष्पः कुरण्टकः // ] इति / एतस्य 'वानउ' इति प्रसिद्धिः // 245 // सैरेयेकः सहचरो झिण्टी सहाचरश्च सः। 'सः' अमिलातः सीरे भवः सैरेयः, "भवे" [ सिद्ध० 6. 3. 123 ] इत्येयण, स्वार्थिक के सैरेयकः / सह चरति सहचरः / 'झिम्' इति रटतीति झिण्टी, 10 पृषोदरादित्वात् / सह आचरति सहाचरः / आह च सैरेयकः सहचरः सैरेयश्च सहाचरः / [ धन्व० वर्ग 1 0 278 ] इति / / स तु रक्तः कुरबकः स्यात् पीतस्तु कुरण्टकः // 246 // नील आर्तगलो दासी बाण ओदनपाक्यपि / 'तुः' पुनरर्थे / 'सः' सहचरः 'रक्तः' रक्तवर्णः कौ रूयते-अर्यते कुरबकः, "को रु-रुण्टि-रण्टिभ्यः" [ हैमोणादिसू० 28 ] इति अकः प्रत्ययः / 'तुः' पुनरर्थे / 'पीतः' पीतवर्णः ‘स्याद्' भवेत् कुरण्टकः, एतस्य साधना पूर्ववत् // 246 // ___'नीलः' नीलवर्णः आर्तः-क्षीणो गलति आर्तगलः / दस्यति-क्षीयते दासी, गौरादित्वाद् ङीः / “वण शब्दे" वण्यते बाणः, घञ् प्रत्ययः, द्विलिङ्गः / 2) ओदनस्येव पाकोऽस्या ओदनपाकी, “पाक-कर्ग-प" [ सिद्ध० 2.4.55 ] इति ङीः / आह च पीतो रक्तोऽथ नीलश्च कुसुमैस्तं विभावयेत् // पीतः कुरण्टको ज्ञेयो रक्तः कुरबकः स्मृतः / नील आर्तगलो दासी बाण ओदनपाक्यपि // [ धन्व० वर्ग 1 श्लो० 278-79 ] इति / 1 अमरे तु 'सैरीयक' इत्यपि दृश्यते //