________________ सटीके निघण्टुशेषे [श्लो० २४४अस्याः त्र्यस्रा / शोभनं रूपमस्याः सुरूपा / मुक्तं बन्धनमस्याः मुक्तबन्धनी / आह च वार्षिकी त्रिपुटा त्र्यम्रा सुरूपा सुभगा प्रिया / श्रीमती षट्पदानन्दा सुवर्षा मुक्तबन्धनी // [ धन्व० वर्ग 5 श्लोक 136 ] इति / * मल्लिकाविशेषोऽयम् // 243 // कुमार्या कणिका चारुकेसरा भृङ्गसम्मता / तरणी रामतरणी गन्धाढया कन्यका सहा // 244 // कुं-भूमिं मारयति कुमारी कुत्सितो मारोऽस्या इति वा, तस्याम् / कुब्जकस्तरणी वल्ली कुमार्यलिकुलप्रिया / ] इति / रामा चासौ तरणी च रामतरणी / गन्धेन आढया गन्धाढया / 13 कनति–दीप्यते कन्या, “स्था-छा-मा-" [ हैमोणादिसू० 357 ] इति यः, के कन्यकाः कुमारीपर्याया वा / सहते परिमलं सहा, अच् / आह च तरणी रामतरणी वर्णिनी चारुकेसरा / रम्या कुमारी गन्धाढ्या द्विरेफगणसम्मता // [धन्व० वर्ग 5 श्लोक 145] इति / 110 एतस्या लोके 'सेवंत्री' इति प्रसिद्धिः // 244 // अमिलाते स्यादम्लातोऽपरिम्लानो महासहा / रक्तपुष्पः कुरबकः पीतपुष्पः कुरण्टकः // 245 // इति ते निपात्यते, तत्र / न म्लायति अम्लातः, “पुत-पित्त-" [ हैमोणादिसू० 204 ] 35 इति ते निपात्यते / न परिम्लायते अपरिम्लानः / महती चासौ सहा च महा सहा / रक्तानि पुष्पाण्यस्य रक्तपुष्पः / [ को रूयते- अर्यते कुरवकः, “को रुरुण्टि-रण्टिभ्यः" हैमोणादिसू० 28 इति अकः प्रत्ययः / ] पीतानि पुष्पाण्यस्य