________________ 236] द्वितीयो गुल्मकाण्डः / 129 एल्वालकं कपित्थं च दुर्वर्णं प्रसरं दृढम् // [धन्व० वर्ग 3 श्लो० 76] इति / एतस्य लोके 'एलीयउ' इति प्रसिद्धिः // 233 // कुङ्कमे रक्तपर्यायं सङ्कोचपिशुनं वरम् / धीरं कुसुम्भं घुसणं पीतं वाल्हीक-पीतने // 234 // कश्मीरजं वह्निशिखं वर्ण लोहितचन्दनम् / “कुकि वृकि आदाने" कुक्यते कुङ्कुमम् , “कुन्दुम-लिन्दुम-" [हैमोणादिसू० 352 ] इत्युमे निपात्यते, क्लीबलिङ्गोऽयम् / वाचस्पतिस्तु 'निदाघेऽपि कुङ्कुमः सुखः स्यात्" इति पुंस्याह, तत्र / रक्तपर्यायं रक्तारख्यम् / सङ्कोचस्य पिशुनंसूचकं सङ्कोचपिशुनम् / सङ्कोचं पिशुनं चेति द्वे नाम्नी इत्यन्ये / वियते वरम् , 10 "युवर्ण-" [सिद्ध 0 5.3. 28] इत्यल् / धीरं स्थिररागम् , धीयते धीरम्, “इण्धाग्भ्यां वा” [ हैमोणादिसू० 389] इति कित् रः / "कुसच् श्लेघे" दन्त्यान्तः, कुस्यते कुसुम्भम् , “का-कुसिभ्यां कुम्भः" [ हैमोणादिसू० 337] इति किदुम्भः / घुष्यते अनेनाङ्गं धुंषते-कान्तिं करोति वा घुसृणम् , "भ्रूण-तृण-" [हैमोणादिसू० 186] इति णे निपात्यते / देश्यामप्ययम् / पीयते स्म पीतम् , पीतयति वा / वा- 15 ल्हीकेषु जातं वाल्हीकम् , “कोपान्त्यात्-" [सिद्ध० 6.3. 56] इत्यण् / वाल्हिकमपि / पीतयत्यङ्गं पीतनम् // 234 // कश्मीरेषु जातं कश्मीरजम् / वढेरिव शिखा-केसरोऽस्य वह्निशिखम् / वर्ण्यते वर्णम् , अल् प्रत्ययः; बियते वा, "इणुर्विशा-वेणि-" [हैमोणादिसू० 182 ] इति णः, क्लीबलिङ्गः / वर्ण्यमपि / लोहितं चन्दनमिव लोहितचन्दनम् / आह च- 30 कुङ्कम रुधिरं रक्तमसृगस्रं च पीतकम् / काश्मीरं चारु वाल्हीकं सङ्कोचं पिशुनं वरम् // . . . [धन्व० वर्ग 3 श्लो० 12 ] इति / [कुङ्कुमनामानि / ] एतस्य लोके 'केसर' 'कुङ्कुम' इति वा प्रसिद्धिः / जात्यां तु रजनिः पुष्पा मालती तैलभाविनी // 235 // 25 प्रियंवदा हृद्यगन्धा मनोज्ञा सुमना लता। १°नं शुकम् / होरं नि० // 2 वरं लों° नि० // 17