________________ * सटीक निघण्टुशेषे [ग्लो० २३२हीबेरनामानि / लोके तु 'वालउ' इति प्रसिद्भिः // 231 // शटयां पलाशः षड्ग्रन्था गन्धोली हिमजा वधूः। कर्चुरः सुव्रता गन्धमूली पृथुपलाशिका // 232 // "शट रुजा-विशरण-गत्यवसादनेषु' शटति शटी, अचि ङीः / केचित् 5 षटीति मूर्धन्यादिमाहुः, शढीत्यपि, तस्याम् / पलाशाः सन्त्यस्य पलाशः, अभ्रादित्वादः / षड् ग्रन्थयोऽस्याः षड्ग्रन्था / गन्धयति-अर्दयति गन्धोली, “पिञ्छोलकल्लोल-" [ हैमोणादिसू० 495 ] इत्योले निपात्यते / हिमे जाता हिमजा / उह्यते वधूः, “वहेर्ध च" [हैमोणादिसू० 832 ] इत्यूः / करोति कर्चुरः, “सिन्दूर कर्चुर-" [हैमोणादिसू० 430 ] इत्यूरे निपात्यते / शोभनो(? नं) व्रतो(तम)ऽस्याः 10 मुत्रता / गन्धयुक्तं मूलमस्याः गन्धमूली / पृथ्वी चासौ पलाशिका च पृथुपलाशिका / आह च शटी पटी पलाशः स्यात् ज्ञेया पृथुपलाशिका / सुगन्धमूला गन्धोली षड्ग्रन्था सुव्रता वधूः // . [ धन्व० वर्ग 1 श्लो० 61 ] इति / 15 शटीनामानि / लोके तु 'शढि' इति प्रसिद्धिः // 232 // एलावालुके त्वैलेयं वालुकं हरिवालुकम् / सुगम्ध्यालुकमेल्वॉलं दुर्वर्ण प्रसरं दृढम् // 233 // एलावद् वलते एलावालुकम् , “कञ्चुकांशुक-" [ हैमोणादिसू० 57 ]इत्युके साधुः, तत्र / एलाया इदम् ऐलेयम्, "तस्येदम्-" [सिद्ध 0 6.3. 160] इत्येयण् / 30 क्लते वॉलकम् , “कञ्चुकांशुक-'' [ हैमोणादिसू० 57] इत्युके साधुः / हरि-पिङ्गं वालुकं हरिवालुकम् / शोभनी गन्धोऽस्येति सुगन्धि, “सु-पूत्युत्सुरभेर्गन्धादिद् गुणे" [सिद्ध 0 7.3. 144] इति समासान्त इत् / “ऋक् गतौ” इयर्ति आलु, "कं प्रापणे च" ऋच्छति वा "ऋ-तृ-श-" [हैमोणादिसू० 727] इति णिदुः रकारस्य लत्वं च, स्वार्थिके के आलुकम् / पृषोदरादित्वाद् दीर्धे आलूकमपि / एलावद् वलते 35 एल्वालम् , पृषोदरादित्वात् / दुष्टो वर्णोऽस्य दुर्वर्णम् / प्रसरति-वर्धते प्रसरम् / दृढं स्थिरम् / आह च एलावालुकमालूकं वालुकं हरिवालुकम् / 1 गन्धाली नि० // 2 °थुफला * नि० // 3 °ल्वाल दुनि० //