________________ 130 सटीके निघण्टुशेषे [ श्लो० 236 तस्याम् / रज्यति रजनिः, "रजेः कित्" [ हैमोणादिसू० 681 ] इति किदनिः / पुष्पति पुष्पा / मालयत्यामोदैर्मालती, "पुत-पित्त-" [ हैमोगादिसू० 204] इति . ते निपात्यते / तैलं भावयति तैलभाविनी // 235 // 5 प्रियं वदति प्रियंवदा / हृद्यो गन्धोऽस्या हृद्यगन्धा / [मनोज्ञा] मनोहरा / सुष्ठु मन्यते सुमना / लाति लायते वा लता, "पृषि रञ्जि-" [हैमोणादिसू० 208] जाती मनोज्ञा सुमना राजपुत्री प्रियंवदा / मालती हृद्यगन्धा च वेतिका तैलभाविनी / / [धन्व० वर्ग 5 श्लो० 137 ] इति / जातीनामानि / लोके तु 'जाइ' इति प्रसिद्धिः / तस्यास्तु कलिकायां स्यात् परंत्री सौमनसायनी // 236 // 'तुः' पुनरर्थे / 'तस्याः' जात्याः कलिकायां स्यात् पतति पत्नी, "नीदाव्." [सिद्ध 0 5.2.88] इति त्रट / सुमनसामियं सौमनसायनी // 236 // 15 जातीफले जातिकोशं शालूकं मालतीफलम् / मज्जसारं जातिसूतं शौण्डं सौमनसं पुटम् // 237 // जात्याः फलं जातीफलम् , ङ्यां प्रयोगदर्शनात्, तिगन्तोऽप्ययम् इति उयुक्ता इति न सिध्यति, तत्र / जातिफलमित्यपि / जातीलतायाः कोशं जातिकोशम् . - जातिसस्याख्यम् / जातिरित्यपि। “शल गतौ” शलति शालूकम् , "शल्यलेर्णित्" 20 [हैमोणादिसू० 59] इत्यूकः / मालल्याः फलं मालतीफलम् / मज्जनि सारोऽस्य मज्ज सारम् / जात्याः सूतं जातिसूतम् / शौण्ड इव शौण्डम् , मदकर्तृत्वात् / सुमनसां-देवानामिदं सौमनसम्, "तस्येदम्" [सिद्ध 0 6. 3.160] इत्यण् / “पुट लुटत् संश्लेषणे" पुटति पुटम् , “नाम्युपान्त्य-'' [सिद्ध० 5.1.54 ] इति कः, पुं-क्लीबलिङ्गः / आह च जातीफलं जातिसस्य शालूकं मालतीफलम् / मज्जासारं जातिसूतं पुटं सौमनसं फलम् // 25 एतस्य लोके ‘जाइफल' इति प्रसिद्धिः // 237 //