________________ 126 . सटीके निघण्टुशेषे [श्लो० २२९[यवासकनामानि] / एतस्य लोके 'जवासउ' इति प्रसिद्धिः / धन्वन्तरिस्तु भेदमाह-धन्वयास इत्यादिकस्य लोके 'धमासउ' इति प्रसिद्धिरिति // 228 // किराततिक्ते कैरातो रामसेनः किरातकः / _अनार्यतिक्तको हैमो भूनिम्बः काण्डतिक्तकः // 229 // 5 किरातदेशे भवस्तिक्तो रसः किराततिक्तः, तत्र / किरातदेशे भवः कैरातः। रामा सेनाऽस्य रामसेनः / किरति रोगान् किरातः. “कृ-वृ-कल्यलि-" [ हैमोणादिसू० 209 ] इत्यातक् , स्वार्थिके के किरातकः। अनार्यस्य तिक्तः अनार्यतिक्तः, के अनार्यतिक्तकः / हिमस्यायं हैमः, “तस्येदम्" [ सिद्ध० 6.3.160 ] इत्यण् . शीतलत्वात् / भुवि निम्ब इव भूनिम्बः। काण्डः-कुत्सितश्चासौ तिक्तश्च 10 काण्डतिक्तः, के काण्डतिक्तकः / आह च - किराततिक्तको हैमः काण्डतिक्तः किरातकः / भूनिम्बोऽनार्यतिक्तश्च कैरातो रामसेनकः // . कैडर्यः पिचुमन्दश्च निम्बो रिष्टो वरत्वचः / छर्दनो हिङ्गुनिर्यासः प्रियमालश्च पर्वतः // नेपालः कथितश्चान्यो जात्यश्चैष ज्वरान्तकः / नाडीतिक्तोऽतिक्तश्च निद्रारिः सन्निपातहा // [धन्व० वर्ग 1 श्लो० 33-35 ] इति / किरातनामानि / लोके तु 'किरायता' इति प्रसिद्धिः // 229 // कुष्ठे तु पाकलं रामं वानीरं वाप्यमुत्पलम् / 0 वानीरज पारिभव्यं कौरव्यं व्याधिनामकम् // 330 // कुष्णाति कुष्ठम्, “कुषेर्वा” [हैमोणादिसू० 164 ] इति विकल्पेन कित् ठः, पुं-क्लीबलिङ्गः, तत्र / पाकलं व्याधित्वात् ; पाकं लाति वा, “क्वचित्" [ सिद्ध 0 5. 1. 171] इति डः / रमते रामम्, " वा ज्वलादि-" [सिद्ध 0 5.1. 62 ] : इति णः, क्लीबलिङ्गः। “वन सम्भक्तौ” वन्यते वानीरम्, “वनि-वपिभ्यां णित्" 2. [हैमोणादिसू० 421] इति णिदीरः / वाप्यां भवं वाप्यम्, "भवे" [सिद्ध 0 6. 3. 123 1 इति यः / व्याप्यमित्येके / उत्पलं दाहहृत्त्वात्, उत्पलपुष्पत्वाद्वा / 1 रजं वापिभाव्यं कौरवं नि० //