________________ 228] द्वितीयो मुल्मकाण्डः / बलेन भद्रमस्याः बलभद्रा, स्वार्थिके के बलभद्रिका / बलेन दीव्यति बुलदेवा / जुह्वत्यनया जुहूः, “दिद्युद्ददृद्-" [सिद्ध 0 5.2. 83] इति किपि साधुः / त्रायते स्म त्राणा, "ऋ-ही-वा-” [ सिद्ध० 4.2. 76 ] इति तस्य नत्वम् / विष्वक्सेनस्य प्रिया विष्वक्सेनप्रिया / आह च त्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणिका / " बलभद्रा बलदेवा वार्षिकं गिरिसानुजा / [धन्व० वर्ग 1 श्लो० 254 ] इति / त्रायमाणानामानि / लोके तु 'त्रायमाण' इति प्रसिद्भिः // 226 // यवासके धन्वयासो यासो धन्वयवासकः / / वीरमूलो दीर्घमूलो बालपत्रो मरुद्भवः // 227 // अधिकण्टकः कुनाशस्ताम्रभूली प्रतोदनी / दुःस्पर्शा कच्छुराऽनन्ता ममुद्रान्ता दुरालमा / / 228 // "युक् मिश्रणे" यौति यबासः, “यु-बलिभ्यामासः” [हैमोणादिसू० 574 ] इत्यासः, स्वार्थिके के यवासकः, तत्र / धन्वयासो मरूद्भवत्वात् / याति-प्रसरति यवासको धन्वयवासकः। वीरं मूलमस्य वीरमूलः / दीर्घ मूलमस्य दीर्घमूलः। बाल इव पत्राण्यस्य बालपत्रः। मरुषु उद्भवति मरुद्भवः // 227 // अधिकानि कण्टकान्यस्य अधिकण्टकः / कुं-पृथ्वी नाशयति कुनाशः, दुःस्पर्शा। कच्छुरोगं राति–ददाति कच्छुरा, पृषोदरादित्वात् / नास्ति अन्तोऽस्या ?'. अनन्ता / अत एव समुद्रान्ता च, दूरव्याप्तेः / कृच्छ्रेग लभ्यते-स्पृश्यते दुरालभा। आह च-- यासो यवासकोऽनन्ता बालपत्रोऽधिकण्टकः / वीरमूलः समुद्रान्ता दीर्घमूलो मरूद्भवः // धन्वयासो दुरालम्भा ताम्रमूली च कच्छुरा / दुरालभा च दुःस्पर्शा यासो धन्वयवासकः / / . [ धन्व० वर्ग 1 श्लो० 22, 20 ] इति / 1 दूरमूलो नि० // 2 कुनाशकोऽधिष्टकण्टस्तानमूली प्रचोदनः / दुःस्पर्शः क° निः॥