________________ 224] द्वितीयो गुल्मकाण्डः / 123 वटपत्रकः। पर्णासो बिल्वगन्धश्च 'द्वितीयः' अपरः कुठेरकः वटपत्राणीव पत्राण्यस्य [वटपत्रः, के] वटपत्रकः / पर्णैः असति-दीप्यते पर्णासः। बिल्व इव गन्धोऽस्य बिल्वगन्धः / . स तु कृष्णः केरालकः // 22 // कौलतालः कृष्णमल्ली मालुकः कृष्णमालुकः / 'तुः' पुनरर्थे / 'सः' कुठेरकः कृष्णः' श्यामः करोति करालः , "ऋ-कृ-मृ-" [ हैमोणादिसू० 475] इत्यालः, स्वार्थिके के करालकः // 222 // कालं ताडग्रति कालतालः, ऋफिडादित्वाल्लत्वम् / कृष्णा चासौ मल्ली च त्यते / कृष्णश्चासौ मालुकश्च कृष्णमालुकः। आह च कुठेरकस्तु वैकुण्ठः क्षुद्रपत्रोऽर्जकः सितः। वटपत्रः कुठेरोऽन्यः पर्णासो बिल्वगन्धकः / / कुठेरकस्तृतीयोऽन्यो मालुकः कृष्णमालुकः / कृष्णार्जकः कालतालः करालः कृष्णमल्लिकः // 15 [ धन्व० वर्ग० 4 श्लो० 54, 56 ] इति / त्रयोऽपि कुठेरकभेदाः / एषां लोके 'आजऊ' इति प्रसिद्धिः / तुलस्यां सुरसाऽऽपीता राक्षसी बहुमञ्जरी // 223 // ग्राम्या गौरी शक्रपत्नी भूतनी देवदुन्दुभिः। 'तुलण उन्माने" तोल्यते तुलसी, “फनस-" [ हैमोणादिसू० 573 ] 20 इत्यसे निपात्यते / शोभनो रसोऽस्याः सुरसा / आपीयते रसोऽस्याः आपीता / रक्षसामियं राक्षसी / बह्वयः मञ्जर्योऽस्याः बहुमजरी // 223 // ग्रामे भवा ग्राम्या, “भवे" [ सिद्ध 0 6.3. 123 ] इति यः; ग्रामे साध्वी वा, 'तत्र साधौ” [सिद्ध 0 7.1.15] इति यः / गूयते गौरी, “खुर-क्षुर-" [हैमोगादिसू० 396] इति रे निपात्यते / शक्रस्य पत्नीव शक्रपत्नी / भूतानि हन्ति 25 भूतनी। देवानां दुन्दुभिरिव देवदुन्दुभिः / आह च 1 सरालकः नि० // 2 काकतालः नि० // 3 सा प्रेतराक्षसी नि० // 4 यस्या गौरी नि० /