________________ 122 . सटीके निघण्टुशेषे [श्लो० 220___ नकुलानामियं नाकुली, प्रियत्वात् , "तस्येदम् " [सिद्ध 06.3. 160] इत्यण् , तस्याम् / सर्प इव गन्धोऽस्याः सर्पगन्धा / शोभनो गन्धोऽस्याः सुगन्धा / चीरितानि पत्राण्यस्याः चीरितपत्रिका / यदाह नाकुली सुरसा नागसुगन्धा गन्धनाकुली // नकुलेष्टा भुजङ्गाक्षी छत्राकी सुवहा च सा / [अमर० का०२ वर्ग 4 श्लो० 114-15] इति / नाकुलीनामानि / लोके तु 'नउली' इति प्रसिद्धिः / गन्धनाकुलिकायां तु सर्पाक्षी विषमर्दनी // 230 // महासुगन्धा सुवहा छत्राकी नकुलप्रिया / 10 गन्धोपलक्षिता नाकुलिका गन्धनाकुलिका, तस्याम् / सर्पस्येव अक्षीण्यस्याः सर्पाक्षी / विषं मृद्नाति विषमर्दनी // 220 // महती चासो सुगन्धा च महासुगन्धा। सुष्ठु वहति सुवहा / छत्रमकतियाति छत्राकी छत्राभपत्रा / नकुलानां प्रिया नकुलप्रिया / आह च सर्पाक्षी नकुलेष्टा च छत्राकी विषमर्दनी // ___ [ धन्व० वर्ग 4 श्लो० 105 ] इति / कुठेरके स्वर्जकः स्यात् क्षुद्रपत्रः कैठिञ्जरः // 221 // वैकुण्ठस्तीक्ष्णगन्धश्च 20 कुठिः सौत्रः, कुण्ठति कुठेरः, “कु-गु-पति-कथि-" [ हैमोणादिसू० 431] इति किद् एरः प्रत्ययः, स्वार्थिके के कुठेरकः, तत्र / अर्जयति अर्जकः, णकः / क्षुद्राणि पत्राण्यस्य क्षुद्रपत्रः / कठिनं जारयति कठिञ्जरः, पृषोदरादित्वात् // 221 // विकुण्ठाया अयं वैकुण्ठः, “तस्येदम् " [ सिद्ध 0 6.3. 160] इत्यण् / तीक्ष्णो गन्धोऽस्य तीक्ष्णगन्धः / 1 °सा रास्ना सुग° इति अमरकोशे पाठः // 2 विषमर्दिनी नि० // 3 कुठिञ्जरः नि० //