________________ द्वितीयो गुल्मकाण्डः।। वल्लिका सोमपल्लिका / अवल्गोः-अरम्याज्जातो अवल्गुजः / कृष्णानि फलान्यस्याः कृष्णफली / इन्दोर्लेखेव इन्दुलेखा / पूतिः फलेषु अस्याः पूतिफली, “पाक-कर्ण 10 यदाह अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका // कालमेषी कृष्णफला बाकुची पूतिफल्यपि / [अमर० का० 2 वर्ग 4 श्लो० 95-96 ] इति / तथा च-- बाकुची सोमराजी च सोमवल्ली सुवल्ल्यपि / अवल्गुजः कृष्णफली सैव पूतिफली मता // चन्द्रलेखेन्दुलेखा च शशिलेखा च सा मता / पूतिपर्णी कालमेषी दुर्गन्धा कुष्ठनाशनी // [धन्व० वर्ग 1 श्लो० 165-66 ] इति / बाकुचीनामानि / लोके तु 'बाबची' इति प्रसिद्धिः // 218 // रास्नायां श्रेयसी रस्या रसनाऽतिरसा रसा। 15 एलापर्णी गन्धमूला सुवहा मारुतापहा // 219 // रसत्यनया रस्यते वा रास्ना, “रसेर्वा” [हैमोणादिसू० 260] इति विकल्पेन णित् नः, तस्याम् / श्रेयसी श्रेष्ठा / रस्यते इति रस्या / रस्यते रसना / रसम कर्ण-पर्ण" [सिद्ध 0 2. 4. 55] इति ङीः / गन्धो मूलेऽस्या गन्धमूला / 20 सुष्टु वहति सुवहा / मारुतमपहन्ति मारुतापहा / आह च रास्ना युक्तरसा रस्या श्रेयसी रसना रसा / सुगन्धमूलाऽतिरसा सैव युक्तरसा स्मृता // [ धन्व० वर्ग 1 श्लो० 270 ] इति / रास्नानामानि / लोके तु ‘राठ' इति प्रसिद्धिः // 219 // नाकुल्यां सर्पगन्धा सुगन्धा चीरितपत्रिका / 1 °न्धा तु सुगन्धा वारिपत्रका नि० //