________________ 10 120 सटीके निघण्टुशेषे [ग्लो० २१६श्रूयते श्रवणा, “तृ-कृ-श-" [हैमोणादिसू० 187] इत्यणः / श्रवणानां शीर्षमिव श्रवणशीर्षा / प्रत्रियते (! प्रव्रज्यते) प्रव्रजिता / तपो विद्यतेऽस्याः तपस्विनी। आह च श्रावणी स्यान्मुण्डनिका भिक्षुः श्रवणशीर्षिका श्रवणाह्वा प्रव्रजिता परिव्राजी तपोधना // [धन्व० वर्ग 1 श्लो० 159] श्रावणी श्राविता पूर्व गालवेन महात्मना / आत्रेयस्यैषिका चोक्ता छिन्नग्रन्थनिका च सा / ] इति / मुण्डीनामानि / लोके तु 'मोडथेरी' इति प्रसिद्भिः / महाश्रावणिकायां तु व्यथा कदम्बपुष्पिका // 216 // ग्रन्थिका लोचनीया च छिन्नग्रन्थनिकाऽपि च / महती चासौ श्रावणिका च महाश्रावणिका, तस्याम् / व्यथते इति व्यथा / कदम्बस्येव पुष्पाण्यस्याः कदम्बपुष्पी, के कदम्बपुष्पिका // 216 // 15 ग्रन्थिरत्रास्ति ग्रन्थिका, व्रीह्यादित्वादिकः / लोच्यते इति लोचनीया / छिन्ना चासौ ग्रन्थनिका च छिन्नग्रन्थनिका / आह च महाश्रावण्यथाऽन्या तु लोचनीया तथाऽपरा / कदम्बपुष्पिका चोक्ता छिन्नग्रन्थनिका च सा / 1 [धन्व० वर्ग 1 श्लो० 160 ] इति / एतस्या लोके ‘महामुण्डी' इति प्रसिद्धिः / बाकुच्यां स्यात् कालमेषी दुर्गन्धा कुष्ठनाशनी // 217 / / पूतिपर्णी मोमराजी सुवल्ली सोमवल्लिका / अवल्गुजः कृष्णफलीन्दुलेखा पूतिफल्यपि // 218 / / "वातं सङ्कोचयति" इति वचनाद् बाकुची, पृषोदरादित्वात् , तस्याम् / कालेन 25 मिष्यते–शद्यते (! शब्द्यते) कालमेषी, कृष्णफलत्वात् / दुष्टो गन्धोऽस्या दुर्गन्धा / कुष्टं नाशयति कुष्ठनाशनी // 217 // . पूतीनि पर्णान्यस्थाः पूतिपर्णी, “पाक-कर्ण-पर्ण-'' [सिद्ध 0 2.4.55] इति ङीः / सोमेन आह्लादनेन राजते सोमराजी। शोभना वली सुवल्ली। सोमस्य 1 त्वव्यथा नि० // 2 लोभनीया नि० // 3 कृष्णफला दुर्लेखा नि० / / 20