________________ 216] द्वितीयो गुल्मकाण्डः / 119 हलदी हलना श्रेष्ठा ज्ञेया वर्गविलासिनी / विषघ्नी च जयन्ती च दीर्घरक्ता सुरङ्गिणी // [धन्व० वर्ग 1 श्लो० 54-55 ] इति / हरिद्रानामानि / लोके तु 'हलद्र' इति प्रसिद्धिः / प्रेपुनाटे तु दद्रुघ्नश्चक्रहश्चक्रमर्दकः // 214 // मेषाक्षो मेषकुसुमः पद्माटेडगजावपि / प्रपुणति प्रपुनाति वा प्रपुनाटः, “कपाट-" [ हैमोणादिसू०१४८] इत्याटे निपात्यते, तत्र / ददु हन्ति दद्रुघ्नः / चक्राणि-दद्रुमण्डलानि हन्ति चक्रहः, "क्वचित्" [ सिद्ध 05. 1.171] इति डः / चक्राणि मृद्गाति चक्रमर्दकः // 214 // मेषवद् अक्षीण्यस्य मेषाक्षः उरणाक्षः / मेषाकाराणि कुसुमान्यस्य मेष- 10 कुसुमः / पद्मवद् आटयति पद्माटः / एडवन्मेषाकृतित्वाद् गज्यते-शब्द्यते एडगजः। आहुश्च चक्रमर्दः स्मृतश्चक्री प्रपुनाटश्च नामतः / / 15 20 ] इति / तथा च चक्रमर्दस्त्वेडगजो मेषाक्षाऽण्डगजः स्मृतः / प्रपुनाटः प्रपुनटश्चक्री त्वाऽऽवर्तकः स च // [ धन्व० वर्ग 4 श्लो० 5 ] इति / [प्रपुनाटनामानि] / एतस्य लोके ‘पमाड' इति प्रसिद्धिः / मुण्डयां मुण्डनिका भिक्षुः श्रावणी जीवबोधनी // 215 // श्रवणा श्रवणशीर्षा प्रव्रजिता तपस्विनी / मुण्ड्यते मुण्डी, तस्याम् / मुण्डनं विद्यतेऽस्याः मुण्डनिका, “अतोऽनेकस्वरात्" [ सिद्ध 0 7. 2 6 ] इतीकः / भिक्षणशीला भिक्षुः, “सन् भिक्षा-'' [सिद्ध 0 5. 2. 33 ] इत्युः / श्रवणानामियं श्रावणी, “तस्येदम्" [ सिद्ध 0 6. 3.160 ] 3. इत्यग् / जीवान् बोधयति जीवबोधनी // 215 / / 1 प्रपुन्नाटे नि० // 2 °३चक्राकश्चक्र नि° //