________________ 211] द्वितीयो गुल्मकाण्डः। पुच्छाकृतित्वाद् अश्वपुच्छी / सिंहाकारं वृन्तमस्याः सिंहहन्ता / कम्बोजदेशे भवा काम्बोजी / कृष्णं वृन्तमस्याः कृष्णन्तिका / आह च -- माषपर्णी तु काम्बोजी कृष्णवृन्ता महासहा / आर्द्रमाषा सिंहवृन्ता मांसमाषाऽश्वपुच्छिका // [धन्व० वर्ग 1 श्लो० 136 ] इति / माषपर्णीनामानि / लोके तु 'माषवनी' इति प्रसिद्धिः // 210 // मुद्गपा काकमुद्रा वर्णा मार्जारगन्धिका / शिम्बी क्षुद्रसहा हासा रङ्गणी शूर्पपर्णिका // 211 / / मुद्गस्येव पर्णान्यस्याः मुद्गपर्णी, तस्याम् / काकस्येव मुद्राऽस्याः काकमुद्रा / यदाह 10 मुद्गपर्णी तु काकैमुद्रा सहेत्यपि / [अमर० का० 2 वर्ग 4 श्लो० 113 ] इति / वर्ण्यते वर्णा / मार्जारस्येव गन्धोऽस्या मार्जारगन्धिका / शिनोति शिम्बिः, "छवि-छिवि-" [ हैमोंणादिसू० 706] इति वौ निपात्यते, ङयां शिम्बी / सहते सहा, क्षुद्रा चासौ सहा च क्षुद्रसहा / हस्यते हासा / रङ्गत्यवश्य रङ्गणी / 15 शूर्प इव पर्णान्यस्याः शूर्पपर्णी, के शूर्यपर्णिका / आह च--- मुद्गपर्णी क्षुद्रसहा शिम्बी मार्जारगन्धिका / वनजा रङ्गणी हासा शूर्पपर्णी बुधैः स्मृता // [ धन्व० वर्ग 1 श्लोक 138 ] इति / तथा च मुद्गपर्णी क्षुद्रसहा शूर्पपर्णी कु( ? तु ) रङ्गणी / वनजा रिङ्गणी शिम्बी सिंही मार्जारगन्धिका // ] इति / मुद्गपर्णीनामानि / लोके तु 'मुदगवनी' इति प्रसिद्भिः // 211 // १°मुद्गा वन्या मार्जारगन्धिका / शिवा क्षुद्रसहा ह्रासो रङ्गणो सूर्यपर्णिका // 211 // नि०॥ 2 व्याख्यासुधायां 'काकमुद्गा' इति पाठानुसारेण "ईषत् कम् 'ईषदर्थे' [पा. 6.3.105] इति कोः कादेशः, काकेन-ईषज्जलेन मुदं गच्छति 'गमश्च' [पा० 3. 2. 47] इति डः / यद्वा काका मुद्गाः-हर्षप्राप्ता यस्याम् / " इति व्याख्यानं वर्तते / / 20