________________ 116 सटीके निघण्टुशेषे [प्रलो० २०९पुनर्नवाऽपरा क्रूरः सद्योमण्डलपत्रकः / श्वेतमूलो वर्षाकेतुर्भहावर्षाभूरुच्यते // __ [धन्व० बर्ग 1 श्लो० 276] इति / एतस्या लोके 'साटहडी' इति प्रसिद्धिः // 208 // ज्योतिष्मत्यां स्वर्णलता दुर्मदा लवणाऽग्निभा / पारावतपदी पण्या ज्योतिष्का कटभीत्यपि // 209 // ज्योतिर्विद्यतेऽस्याः ज्योतिष्मती, तस्याम् / स्वर्णस्य लतेव स्वर्णलता / दुष्टो मदोऽस्याः दुर्मदा / लुनाति जाड्यं लवणा, नन्द्यादित्वादनः / अग्निवद् भा दीप्तिरस्याः अग्निभा / पारावतस्येव पदा अस्याः पारावतपदी / अत एव पारा10 वतांहिः / पणे साधुः पण्या; "स्तुत्या" इति क्षीरस्वामी / द्योतते ज्योतिः, "धुतेरादेश्च जः" [हैमोणादिसू० 991 ] इतीस् , तदेव ज्योतिष्का / “कटतिआवृणोति कटभी” इति क्षीरस्वामी, “क-श-ग-शलि-" [हैमोणादिसू० 329] इत्यभः / आह च ज्योतिष्मती तु कटभी स्यात् सुवर्णलतेति च / 15 ज्योतिष्का चाग्निभा सा च लवणोदा च दुर्दिना // [धन्व० बर्ग 1 श्लो० 267 ] इति / द्वयर्थे पारावतपदी-काकजङ्घा ज्योतिष्मती च / अमरोऽप्याहपारावतांहिः कटभी पण्या ज्योतिष्मती लता / [का० 2 वर्ग 4 श्लो० 150 ] इति / ज्योतिष्मतीनामानि / लोके तु 'मालकांगुणी' इति प्रसिद्धिः // 209 // मौषपामामाषा मांसमाषा महासहा / / अश्वपुच्छी सिंहवृन्ता काम्बोजी कृष्णवृन्तिका // 210 // माष इव पर्णान्यस्या माषपर्णी, तस्याम् / आद्री चासौ माषा च आर्द्रमाषा / 25 मांसोपलक्षिता माषा मांसमाषा / महासहेति मुद्गपाः सहाया भिन्नेयम् / अश्व 1 °ता कङ्गुनी लव नि: // 2 माषपण्यां सूर्यपर्णी पाण्डुश्चापि महासहा / अश्वपुच्छा नि० //