________________ 114 सटीके निघण्टुशेषे [श्लो० २०६वा, तेषां प्रियत्वात्, “अतोऽनेकस्वरात्" [ सिद्ध 0 7.2.6] इतीकः / शिखरोऽस्त्यस्य शिखरी / आघटन्ते कपयोऽत्र आघाटः / दुःखेन गृह्यते दुर्ग्रहः; दुष्टो ग्रहोऽस्य वा / प्रत्यञ्चि पुष्पाण्यस्याः प्रत्यक्पुष्पी / प्रत्यक्पर्ण्यपि / पत्राण्येव पुष्पाण्यस्य पत्रपुष्पी / केशानां वल्ली केशवल्ली / केशपर्ण्यपि / 5 मयूरप्रतिकृतिर्मयूरकः, “तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः' [ सिद्ध 0 7.1.108 ] इति कः / आह च अपामार्गश्च शिखरी प्रत्यक्पुष्पी मयूरकः / अधःशल्याऽथ किणिही दुर्ग्रहः खरमञ्जरी // स एवोक्तः शैखरिको मर्कटी दुरतिग्रहः / पत्रषुष्पी च वशिरः कुटो मर्कटपिप्पली // [ धन्व० वर्ग 5 श्लो० 260-61 ] इति / तथा च अपामार्गः शैखरिको धामार्गव-मयूरको // प्रत्यक्पर्णी कीशपर्णी] किणिही खरमञ्जरी / [अमर० का० 2 वर्ग 4 श्लो० 88-89] इति / अपामार्गनामानि / लोके तु 'आझाझाडा' इति प्रसिद्धिः // 205 // आईके तु शृङ्गबेरं कटुभङ्गं कटूत्कटम् / शुण्ठी महौषधं विश्वा नागरं विश्वभेषजम् // 206 // "अर्द गति-याचनयोः" अर्थते आर्द्रम् , “चि-जि-शु-सि-" [हैमोणादिसू० 20 392 ] इति रो दीर्घश्च, आर्द्रमेव आर्द्रकम , पुं-क्लीबलिङ्गः, तत्र / शृणाति रसनां शृङ्गबेरम् , “शतेरादयः” [हैमोणादिसू० 432] इति केरे निपात्यते / कटुःक्षारः भङ्गोऽस्य तत् कटुभङ्गम् / कटुषु उत्कटम् कटूत्कटम् / शुण्ठति-शुष्यति शुण्ठिः, “किलि-पिलि-" [हैमोणादिसू० 608 ] इति इः, ङ्यां शुण्ठी / महच्च तदौषधं च महौषधम् / “विशंत् प्रवेशने" विशति दोषान् विश्वा, स्त्री-क्लीबलिङ्गः, 5.) "निघृषि-" [ हैमोणादिसू० 511 ] इति किद् वः / .नगराख्ये देशे भवं नागरम "भवे" [ सिद्ध० 6. 3. 123] इत्यण ; “गृत् निगरणे" न न गिरति कफमिति वा, नखादित्वात् साधुः, पृषोदरादित्वाद् दीर्घः / विश्वस्य भेषजं विश्वभेषजम्, अनेकदोषजित्त्वात् / आह च