________________ 112 सटीके निघण्टुशेषे . [ श्लो० 201____ कण्टाः सन्त्यस्य कण्टी / षड् अङ्गान्यस्य षडङ्गः / गवां कण्टो गोकण्टः / त्रयः कण्टा अस्य त्रिकण्टः / त्रिकं कण्टकानामस्य त्रिककण्टकः / इक्षोर्गन्ध इव गन्धोऽस्याः इक्षुगन्धा / व्यालस्येव दंष्ट्राऽस्य व्यालदंष्ट्रः / शुनो दंष्ट्रेव हिंस्रत्वात् श्वदंष्ट्रः / स्वादवः-मृष्टाः कण्टका अस्य स्वादुकण्टकः // 200 // पलं -मांसं कषति पलङ्कषा / कण्टप्रधानं फलमस्य कण्टफलः / षड् अन्ता यस्य स षडन्तः / भुवः क्षुर इव भूक्षुरः / क्षुरति क्षुरः। आह च गोक्षुरः स्याद् गोक्षुरको भक्षटः स्वादुकण्टकः / गोकण्टको भक्षटकः षडन्तः क्षुरकः क्षुरः // गोकण्टो गोखुरः कण्टी षडङ्गस्त्रिकटस्त्रिकः / त्रिकण्टकः कण्टफल: श्वदंष्ट्रो व्यालदंष्ट्रकः // ] इति / गोक्षुरनामानि / लोके ‘गोखरू' इति प्रसिद्भिः / दन्त्यां शीघ्रोपशल्योपचित्रोदुम्बरपर्णिका // 201 // मकूलको रामदूती निकुम्भो घुणवल्लभा / दन्ताभात्वाद् दन्ती, दाम्यन्त्यनया वा दोषाः “दम्यमि-" [ हैमोणादिसू० 200 ] इति तः, तस्याम् / श्यायते शीघ्रा, “खुर-क्षुर-" [ हैमोणादिसू० 396] इति रे निपात्यते / उपशलति उपशल्या, “स्था-छा-मा-सा-" [ हैमोणादिसू० 357] इति यः / उप–समीपे चित्राण्यस्याः उपचित्रा। उदुम्बर इव पर्णान्यस्या उदुम्बरपर्णी, के उदुम्बरपर्णिका // 201 // 20 “मकुङ् मण्डने" मङ्कते चित्रत्वाद् मकूलः, “दुकूल-कुकूल-" [हैमोणादिसू० 491] इत्यूले निपात्यते, स्वार्थिके के मकूलकः। रामस्य दूतीव रामदूती / नियतः कुम्भो निकुम्भः / घुणानां वल्लभा घुणवल्लभा / आह च दन्ती शीघ्रा निकुम्भा स्यादुपचित्रा मकूलकः / तथोदुम्बरपर्णी चे विशल्या च घुणप्रिया // ] इति / दन्तीनामानि / लोके तु 'दांती' इति प्रसिद्धिः / 1 शीघ्रा विशल्या च चित्र * नि० //