________________ 196] द्वितीयो गुल्मकाण्डः। 109 अस्या लोके ‘रींगणी' इति प्रसिद्धिः / बृहत्यां क्षुद्रा भण्टाकी वार्ताकी राष्ट्रिका कुली // 194 // विशंदा सिंह्यनाक्रान्ता महोटिका महत्यपि / कण्टकबाहुल्याद् बृहती, तस्याम् / क्षुणत्ति क्षुद्रा हिंस्रा, "ऋज्यजि-" [हैमोणादिसू० 388] इति किद् रः ; क्षुद्रवार्ताक्येकदेशे वा क्षुद्रा, यथा सत्या 5 सत्यभामा / “भट भृतौ” भटति भण्टाकी, वर्तते वार्ताकी, उभावपि “मवाकश्यामाक-वार्ताक-" [हैमोणादिसू० 37] इत्याके निपात्येते / “भण्टाकी कण्टकार्था वा" इत्यपरः। राष्ट्रमस्त्यस्या राष्ट्रिका, " अतोऽनेकस्वरात्" [सिद्ध 07.2.6] इतीकः / कोलति कुली, “नाम्युपान्त्य-" [सिद्ध 0 5.1.54] इति कः // 194 // विशदा श्वेता / हिनस्ति सिंही, पृषोदरादित्वात् / न आक्रान्ता अना- 10 क्रान्ता / महोटिकेत्ययमव्युत्पन्नः शब्दः / महती वृद्धा / आह च बृहती सिंह्यनाक्रान्ता वार्ताकी राष्ट्रिका कुली / विशदा स्थूलभण्टाकी महती तु महोटिका / / ] इति / . भागुरिस्तु द्वयोवृहतीत्वं मन्यते / यत् शाश्वतः - 15 क्षुद्रायां क्षुद्रवार्ताक्यां बृहती छन्दसि कचित् / [श्लो० 420] इति / एतस्या लोके 'वृद्धरींगणी' 'डोल्हरी' इति प्रसिद्धिः / विदार्यां तु स्वादुकन्दा पुष्पकन्दा शृगालिका // 195 // वृक्षादनी चर्मका कूष्माण्डी चाऽश्ववल्लभा / विडालिका वृक्षपर्णी विदारयति विदारी, अच्, गौरादित्वाद् ङीः; “विदार्य भक्ष्यते विदारी" इति क्षीरस्वामी, पृषोदरादित्वात् , तस्याम् / स्वादुः--मृष्टः कन्दोऽस्याः स्वादुकन्दा / पुष्पाकारः कन्दोऽस्याः पुष्पकन्दा / सृजति रसं शृगाली, “चात्वाल-कङ्काल-" [हैमोणादिसू० 480] इत्याले निपात्यते, के शृगालिका // 195 // 25 वृक्षमत्ति वृक्षादनी; अनट् / चम कषति चर्मकषा / कुष्णाति कुष्यते वा कूष्माण्डी, “पिचण्डैरण्ड-" [ हैमोणादिसू० 176] इत्यण्डे निपात्यते / अश्वानां 1 क्षुद्रभण्टाकी नि० / / 2 विशदः नि० // 3deg षा भूकूष्माण्डयश्व deg नि० // 20