________________ 108 सटीके निघण्टुशेषे [प्रलो० 193 कर्कटशब्देन जलचरजीवविशेषः, तदाकाराणि शृङ्गाण्यस्याः कर्कटशृङ्गी, तस्याम् / शृणाति शृङ्गी, "शृङ्ग-शादियः" हैमोणादिसू० 96] इति गे निपात्यते / नतमङ्गमस्या नताङ्गी / शिशिरे फलान्यस्याः शिशिरेफला, पृषोदरादित्वात् सप्तम्यलोपः // 192 // यन्महेश्वरः स्मृता कर्कटशृङ्गयां च महाघोषा मनीषिभिः / वक्रा कुटिला / मञ्जीर इव शिम्बिरस्या [मञ्जीरशिम्बिः, स्वाथिके के मब्जी10 रशिम्बिका / आह च शृङ्गी कर्कटशृङ्गी च कुलीरा कर्कटाया / / चन्द्रा स्वादु विषाणी च प्रोक्ता च निजमूर्द्धजा / ] इति / 15 कर्कटशृङ्गीनामानि / लोके तु 'काकडासिंगी' इति प्रसिद्धिः / निर्दिग्धिकायां कण्टाली दुःस्पर्शा कण्टकारिका // 193 // व्याघी क्षुद्रा दुष्पवर्षा धावनी हेमपुष्पिका। “निर्दिह्यते निर्दिग्धा, स्वार्थिक के निर्दिग्धिका, तस्याम् / कण्टैरलतिदीप्यते कण्टाली / दुष्टः स्पर्शोऽस्याः दुःस्पर्शा। कण्टकान् इयर्ति कण्टकारी, के 20 कण्टकारिका // 193 // व्याघ्रीव व्याघ्री, दुःस्पर्शत्वात् / [ क्षुणत्त्यङ्ग क्षुद्रा। ] "धृषण शक्तिबन्धे" धर्षणं धर्षः, दुष्टः प्रधर्षोऽस्या दुष्पवर्षा। धाव्यते धावनी, "अनट्” [ सिद्ध०५.३.१२४] इत्यनट् / हेमवर्णानि पुष्पाण्यस्या हेमपुष्पी, के हेमपुष्पिका / आह च कण्टकारी च दुःस्पर्शा क्षुद्रा व्याघ्री निर्दिग्धिका / कण्टालिका कण्टकिनी धावनी दुष्प्रधर्षणी // ] इति / 1 मञ्जरी इव शिम्बिरस्या मञ्जरीशिम्बिका पु 1 //