________________ 107 107 10 10 193] .... द्वितीयो गुल्मकाण्डः / एतस्या लोके 'आसगंधि' इति प्रसिद्धिः // 190 // मेषशृङ्गयामजशृङ्गी वर्तिका सर्पदंष्ट्रिका / ... मेषस्येव शृङ्गाण्यस्याः मेषशृङ्गी, तस्याम् / अजस्येव शृङ्गाण्यस्या अजशृङ्गी / वर्त्तते वर्तयति वा वर्तिका, णकः प्रत्ययः / सर्पस्येव दंष्ट्रा अस्याः सर्पदंष्ट्रा, स्वार्थि के सर्पदंष्ट्रिका / आह च मदनपाल:मेषशृङ्गी मेण्ढवल्ली सर्पदंष्ट्राऽजशृङ्गिका / / ] इति / मेषशृङ्गीनामानि / लोके तु 'मीढासिंगी' इति प्रसिद्धिः / सैव स्याद दक्षिणावर्ता वृश्चिकाली विषाणिका // 19 // उष्ट्र-धूमकपुष्पा च काली च विषघातनी / 'एव' इति निश्चयार्थे / 'सा' मेषशृङ्गी ‘स्याद्' भवेद् दक्षिणा आवर्ता अस्या दक्षिणावर्ता; दक्षिणस्यां दिशि आवर्तते इति वा / वृश्चिकालमिव वृश्चिकाली, 'अलम्' इति वृश्चिककण्टक उच्यते / विषाणानि सन्त्यस्याः विषाणिका, शृङ्गीत्वात् // 191 // 'उष्ट्र-धूमकपुष्पा' इति उष्ट्र-धूमशब्दाभ्यां परः पुष्पशब्दः सम्बध्यते, तेन Tb उष्ट्रपुष्पा धूमपुष्पा च / काली कालवर्णत्वात् / विषं घातयति विषघातनी, अनट् / आह च__अन्या तु दक्षिणावर्ता वृश्चिकाली विषाणिका / ] इति / धन्वन्तरिरप्याह 20 अजशृङ्गी मेषशृङ्गी सर्पदंष्ट्रा च वर्तिका / द्वितीया दक्षिणावर्ता वृश्चिकाली विषाणिका // . ] इति / मेषशृङ्गीविशेषोऽयम् / कर्कटशृङ्गयां तु शृङ्गी नताङ्गी शिशिरेफला // 192 // कर्कटाहा महाघोषा वक्रा मञ्जीरशिम्बिका / 1 'काला वि° नि० // 2 °पुच्छा च नि० // 3 शृङ्गी तु कर्कटङ्गयां नता° नि० // 4 मञ्जरिशि° नि०॥ 25