________________ 106 सटीके निघण्टुशेषे [ श्लो० १८९मधुयष्टयां यष्टीमधुस्तल्लक्षणं मधुरवा / क्लीतकं च नोरजाऽसौ मधुपर्णी मधूलिका // 189 // मधुनो यष्टी मधुयष्टी, तस्याम् / यष्टीरूपं मधु यष्टीमधुः / तल्लक्षयति तल्लक्षणम् / मधु स्रवति मधुस्रवा / क्लीबत्वं तकति–प्रतिहन्ति वृष्यत्वात् क्लीतकम् . पृषोदरा5 दित्वात् साधुः; क्लीतकसंज्ञं वा, क्लीबलिङ्गः, स्थलजेयम् / नीरे जाता नीरजा / 'असौ' इति मधुयष्टी। मधूनि पर्णान्यस्याः मधुपर्णी, " पाक-कर्ण-पर्ण-'' [सिद्ध 0 2.4.55] इति ङीः / मधुलिका माधुर्यात् / आह च मधुयष्टी च यष्टी च यष्टीमधु मधुस्रवा / यष्टीमधूकं मधुकं यष्टया मधुयष्टिका // तल्लक्षणं क्लीतनं च क्लीतकं क्लीतका च सा / स्थलजा जलजाऽन्या च मधुपर्णी मधूलिका // ] इति / . मधुयष्टीनामानि / लोके 'जेठीमधु' इति प्रसिद्धिः // 189 // अश्वगन्धायां तुरगी कचुकाऽश्वावरोहकः / 15 अश्वकन्दो बहुगन्धा पुत्रदा लोककर्ण्यपि // 190 / / अश्वस्येव गन्धोऽस्याः अश्वगन्धा, तस्याम् / तुरो गच्छति तुरगी, "नाम्नो गमः-" [सिद्ध 05.1.131] इति डः / यदाह श्रीधरः-- तुरगी त्वश्वगन्धायां तुरगो हय-चित्तयोः / / [ विश्वलोचन गतृतीये श्लो० 40 ] इति / 20 "कचि बन्धने” कच्यते कञ्चुका, “कञ्चुकांशुक-" [हैमोणादिसू० 57] इत्युके निपात्यते / अश्वैः अवरुह्यते अश्वावरोहः, स्वार्थिके के अश्वावरोहकः / अश्वस्य कन्दः अश्वकन्दः। बहुर्गन्धोऽस्या बहुगन्धा / पुत्रं ददाति पुत्रदा / "कर्णण भेदे" लोकं कर्णयति लोककर्णी, वातहन्त्रीत्वात् / आह च अश्वगन्धा वाजिगन्धा कुम्भकोऽश्वावरोहकः / वराहकर्णी तुरगी बल्या वाजीकरी मता // __] इति / 1 तुरङ्गो कम्बुका नि० // 2 कोलकर्ण्यपि नि० // 25