________________ 188] द्वितीयो गुल्मकाण्डः / 105 "प्रींगश् तृप्ति-कान्त्योः" प्रीणाति इति प्रियङ्गः, स्त्रीलिङ्गः, “प्री-कै-पै-नीलेरमुक्” [हैमोणादिसू० 761] इत्यङ्गुक्, तत्र / प्रीणाति प्रियकः, “कीचक-पेचक-" [हैमोणादिसू० 33] इत्यके निपात्यते / "कै शब्दे" कायते कङ्गः, “-प्री-कै-पै-नीलेरमुक" [हैमोणादिसू० 761] इत्यङ्गुक् / प्रिया चासौ वल्ली च प्रियवल्ली। प्रीणाति प्रिया. "नाम्युपान्त्य-" [सिद्ध 05.1.54] इति कः / लायते लता, "पृषि-रञ्जि-" 5 [हैमोणादिसू० 208] इति “लांक् आदाने" इत्यस्मात् किद् अतः // 187 // विषूची सेनाऽस्याः विष्वक्सेना; विष्वक् सिनोति-सर्वतो बध्नाति वा “सेर्वा" [हैमोणादिसू० 262] इति विकल्पेन किद् नः प्रत्ययः / गन्धप्रधाना फली गन्धफली। ईषद् रम्भा कारम्भा, "अल्पे" [सिद्ध 03.2.136] इत्यनेन ईषदर्थे कादेशः / फलति-विशीर्यते फलिनी, “श्या-कठि-खलि-" [हैमोणादिसू० 282] 10 इति बहुवचनादिनः / फलति फली, अच् , गौरादित्वाद् ङीः / गुण्ड्यते-क्रीड्यते गुन्द्रा, "खुर-क्षुर-" [हैमोणादिसू० 396] इति रे प्रत्यये निपात्यते / गवि-भूमौ वन्द्यते गोवन्दनी / इन्दुस्तु “गौः वन्दनी" इति भिनत्ति / यदाह वन्दनी पुष्पशोभना / गन्धप्रियङ्गुः कारम्भा लता गौवर्णभेदिनी // [ ] इति / "श्यामा वर्णेन गौरश्यामवर्णा" इति क्षीरस्वामी / योषा-स्त्री तस्याः आह्वा अस्या योषाहा / वर्ण भिनत्तीत्येवंशीला वर्णभेदिनी, “अजातेः शीले" [सिद्ध 0 5.1.154] इति णिन् / आह चश्यामा तु महिलाह्वया / 20 लता गोवन्दनी गुन्द्रा प्रियङ्गः फलिनी फली // विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सौ / [अमर० का० 2 वर्ग 4 श्लो० 55-56] इति / तथा च प्रियङ्गुः प्रियवल्ली च फलिनी कङ्गुनी प्रिया / वृत्ता गोवन्दनी श्यामा कारम्भा वर्णभेदिनी // ] इति / एतस्या लोके 'प्रियंगु' इति प्रसिद्धिः // 188 // 1 अमरे तु 'सः' इति पाठः / / 20 25