________________ 104] सटीके निघण्टुशेषे [श्लो० १८५श्वेता तु श्वेतसुरसा गोलोमी भूतवेश्यपि // 185 // 'तुः' पुनरर्थे / 'श्वेता' श्वेतवर्णा श्वेतः शोभनश्च रसोऽस्याः श्वेतसुरसा / गोरिव लोमान्यस्या गोलोमी, गोलोमशत्वात्, पृषोदरादित्वात् साधुः / गोभिर्खयते वा गोलोमी, “रुक्म-ग्रीष्म" [हैमोणादिसू० 346 ] इति मान्तो निपात्यते / 5 भूतानि विशति-आह्लादयति भूतवेशी / आह च- . शेफालिकाऽन्या निर्गुण्डी वनौका नीलमञ्जरी / शुक्लाऽन्या श्वेतसुरसा भूतवेशी च कथ्यते // ] इति / द्वितीया निर्गुण्डीयम् // 185 // शेफालिकायां सुवहा निर्गुण्डी नीलिका च सा / सुरसा रक्तवृन्ता च श्वित्रघ्नी पुष्पवर्षिणी // 186 // शेरते शेफाः, 'री-शीभ्यां फः' [हैमोणादिसू० 314] इति फः, ते अलयोऽस्याः शेफालिका, तस्याम् / सुष्टु वहत्यामोदं मुवहा / निर्गुण्डयति निर्गुण्डी, “गुडण् वेष्टने” / नीलिका नीलवर्णा / शोभनो रसोऽस्याः सुरसा / रक्तं वृन्तमस्याः रक्तवृन्ता / 15 श्वित्रं-कुष्ठं हन्ति श्वित्रघ्नी / पुष्पाणां वर्षः पुष्पवर्षः, * स विद्यतेऽस्याः पुष्पवर्षिणी // 186 // सा तु शुक्ला भूतवेशी सत्यनामा बहुक्षमा / 'सा' शेफालिका शुक्ला भूतानि विशति-आह्लादयति भूतवेशी। सत्यं नाम अस्याः सत्यनामा / बहु क्षमते बहुक्षमा / -25 प्रियङ्गो प्रियकः कङ्गुः प्रियवल्ली प्रिया लता // 187 // विष्वक्सेना गन्धफली कारम्भा फलिनी फलो / गुन्द्रा गोवन्दनी श्यामा योषाहा वर्णभेदिनी // 188 // 1 गोलोमा नि० // 2 भूतकेश्यपि पु / पु 2 नि० / यद्यपि टीकादर्शयोः मूलपाठे 'भूतकेशी' इति पाठो वर्तते, किञ्च व्याख्या तु 'भूतवेशी' पाठानुसारिणी वर्त्तते / अमरादिष्वपि “सिताऽसौ श्वेतसुरसा भूतवेशी" [का० 2 वर्ग 4 श्लो० 72] इत्यादौ 'भूतवेशी' नामैव दृश्यते // / 3 भूतकेशी पु 2 // 4 नालिका सुता / सुरसा नि० // 5 भूतकेशी सत्यनाम्नी बह नि०॥ 6 पर्ण. मेदनी नि०॥