________________ 102 सटीके निघण्टुशेषे [श्लो० 184-85. तृणराजः, केतक:-क्रकचच्छदः, एषां द्वन्द्वः / क्रमुकः- पूगः / नालिकेरः प्रतीतः / एताः तृणजातयः 'स्युः' इति भवन्ति, तृणप्रधानवृक्षत्वादिति / आह च एते च हिन्तालसहितास्त्रयः // खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः / [ अमर० का 02 वर्ग 5 श्लो०१६९-७०] // 183 // / // इति श्रीमबृहत्खरतरगच्छे श्रीजिनराजसूरिशिष्यश्रीजयसागरमहो पाध्यायपट्टानुक्रमवाचनाचार्यधुर्यश्रीभानुमेरुगणिशिष्यसमस्तप्रशस्तग्रन्थावलिविचक्षणश्रीज्ञानविमलोपाध्यायशिष्य वाचनाचार्यश्रीश्रीवल्लभगणिविरचितायां श्रीहेमचन्द्राचार्यकृतनिघण्टुशेषटीकायां वृक्षकाण्डः 10 प्रथमः समाप्तः // 1 //