SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 13] प्रथमो वृक्षकाण्डः / 'तत्र' इति पूगे 'तुः' इति पुनरर्थे, चिनोति चिकम् , “निष्क-तुरुष्क" [हैमोणादिसू० 26] इति के निपात्यते ; “चिक्कण् व्यथने” इति कौशिकः, चिक्कयति वा चिक्कम्, अच्, तस्मिन् / चिनोति चिक्कणम् , “चिक्कण-कुक्कण-" [हैमोणादिसू० 190] इत्यणे निपात्यते / धन्वन्तरिस्तु सामान्येनाऽऽह- - स्यात् पूगफलमुद्वेगं संसि घोण्टाफलं मतम् / चिक्कणं वल्कलं चिकं गवां मदकरं च तत् // ] इति / पूगफलनामान्यमूनि / लोके 'फोफलु' इति प्रसिद्धिः / हिन्ताले तु तृणराजो राजवृक्षो लताङ्कुरः // 181 // हिनोति-वर्धते हिन्तालः, "चात्वाल-कङ्काल-हिन्ताल-" [हैमोणादिसू० 480] 10 इत्याले निपात्यते, तत्र। तृणानां राजा तृणराजः। वृक्षाणां राजा राजवृक्षः, राजदन्तादित्वात् पूर्वनिपातः / लताया अङ्कुर इव लताङ्कुरः। एतस्य लोके 'हिन्ताल' इत्येव प्रसिद्धिः // 181 // - ताल्यां तु मृत्युपुष्पा स्यादेकपत्रफलाऽपि च / ताड्यते ताली, ऋफिडादित्वाद् लत्वम् ; ताडी इत्यपि, तस्याम् / मृत्यु- 15 प्रदानि पुष्पाण्यस्या मृत्युपुष्पा / एकं पत्रं फलं चास्याः एकपत्रफला / ___केतके तु रजःपुष्पो जम्बूलः क्रकचच्छदः // 182 // "कित निवासे” केतति वने केतकः, णकः प्रत्ययः, पुं-क्लीबलिङ्गोऽयम् / यद् वाचस्पतिः- "केतकस्तु द्वयोः" [ ] इति / रजोयुक्तानि पुष्पाण्यस्य रजःपुष्पः / जायते जम्बूलः, “दुकूल-कुकूल-" [ हैमोगादिसू० 491] 20 इत्यूले निपात्यते / क्रकचाकाराणि छदान्यस्य क्रकचच्छदः // 182 // खजूर-ताल-खर्जूरी-ताली-हिन्ताल-केतकाः / क्रमुको नालिकेरश्च 'स्युरेतास्तृणजातयः // 183 // खर्जूरः - बृहत्खघुराख्यः, तालः -- लेख्यपत्रः, खजूरी - पिण्डखर्जूरिका, अत्रानुक्रमव्यत्ययश्छन्दोभङ्गभयादिति, एवमन्यत्रापि, ताली-मृत्युपुष्पा, हिन्तालः 1 स्युरेते तृणपादपाः नि० / अमरेऽपि तृणद्रुमत्वेनैवोल्लेखः //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy