________________ 100] सटीके निघण्टुशेषे [श्लो० 18. नालिकान्–नालयुक्तान् पुष्पादीन् ईरयति नालिकेरः; नलति वा, “शतेरादयः” [ हैमोणादिसू० 432 ] इति केरे निपात्यते, पुं-स्त्रीलिङ्गः, तत्र / रसमयं फलमस्य रसफलः। हलाकारपत्रशाखत्वाद लागली / कूर्चे केसराण्यस्य कूर्चकेसरः // 179 // दक्षिणस्यां दिशि भवो दाक्षिणात्यः, “दक्षिणा-पश्चात्पुरसस्त्यण् " [सिद्ध 0 5 6. 3. 13 ] इति त्यण् / दृढानि फलान्यस्य दृढफलः / नालिकेर इत्यस्य लत्वे नालिकेलः। लता चासौ तरुश्च लतातरुः / आह च-- नालिकेरो रसफलः सतुङ्गः कूर्चकेसरः / लतावृक्षो दृढफलो लाङ्गली दाक्षिणात्यकः // ] इति 10 एतस्य लोके 'नालेर' इति प्रसिद्धिः / पूंगे क्रमुक-गूवाक-खपुरा नीलवल्कलः // 180 // घोण्टा " पूग्श् पवने" पुनाति पूगः, " पू-मुदिभ्यां कित्” [हैमोणादिसू० 93], इति किद् गः, तत्र / कामति क्रमुकः, "क्रमेः कृम् च वा” [हैमोणादिसू० 53]. 15 इत्युकः / “गुंत् पुरीषोत्सर्गे" गुवत्यनेन स्रंसकत्वाद् गूवाकः, "मवाक-श्यामाक-" [हैमोणादिसू० 37] इत्याके निपात्यते / “पुरत् अग्रगमने" खे पुरति खपुरः / "खानि पृणाति खपुरः" इति क्षीरस्वामी / पुंल्लिङ्गः / यद् गौडःखपुरो लसके भद्रमुस्तके क्रमुकेऽपि च / ] इति / 30 नीलं वल्कलमस्य नीलवल्कलः // 180 // "घुण् घूर्णत् भ्रमणे" घुणति घोण्टा, “घटा-घाटा-' [ हैमोणादिसू० 141] इति टे निपात्यते / एतस्य लोके ‘सोपारी' इति प्रसिद्धिः / ___ अस्य फलमुद्वेगं . 'अस्य' पूगस्य फलं उद्गतो वेगोऽस्य उद्वेगम्, [संसकत्वात् / _ चिक्के तत्र तु चिक्कणम् / 1. पूगे गूवाकः क्रमुकः पूगी च नीलवल्कलः // 180 // एतस्य फल° नि० // 2. चिकणे तत्र चिकणम् नि० //