________________ 180] प्रथमो वृक्षकाण्डः। - 'खर्जू रिकायां' खजूरीविशेषे ‘स्याद' भवेद् भूमेः खजूरी भूमिखर्जूरी / काकैः पृच्यते काकपटी, "कपट-कीकटादयः" [ हैमोणादिसू०१४४ ] इत्यटे निपात्यते / पिण्डखजूरिकेयम् / आह च मदनपाल:-- बृहत्खजूरिका श्रेणी सुफला द्वीपसम्भवा / 10 अन्या स्कन्धफला स्वाद्वी दुरारोहा मृदुच्छदा / भूमिखजूरिका काकपर्कटी ] इति / अनयोर्लोके 'महाखजूरि' 'पिंडखजूरि' इति प्रसिद्धिः // 178 // तेले तालो लेख्यपत्रस्तृणराजो ध्वजद्रुमः / तैलति-प्रतिष्ठते बहुमूलत्वात् तलः, अच् , तत्र / प्रज्ञाद्यणि तालः / / लेख्यानि पत्राण्यस्य लेख्यपत्रः / तृणानां राजा तृणराजः, तृणद्रुममध्ये मुख्यत्वात् , “राजन्-सखेः” [ सिद्ध 0 7. 3. 106 ] इत्यट् समासान्तः / ध्वज इव द्रुमेषु ध्वजद्रुमः / आह च- तालो ध्वजद्रुमः पा(? प्रां)शुर्दीर्घस्कन्धो दुरारुहः / 15 तृणराजो दीर्घतरुर्लेख्यपत्रो द्रुमेश्वरः // ] इति / एतस्य लोके 'ताड' इति प्रसिद्धिः / अष्टविधोऽयम् / यदाह तालश्चाष्टविधो ज्ञेयो हृद्यः कुष्ठकृमिप्रणुत् / पित्ताऽस्रनो रुचिस्वादु वातजिद् बृंहणो गुरुः // 20 इत्येतस्य गुणाः / नालिकेरे रसफलो लागली कूर्चकेसरः // 179 // दाक्षिणात्यो दृढफलो नालिकेलो लतातरुः / 1. ताले तलो लेख्य° नि० // 2 "तलति-प्रतिबिम्बति बहुरूपत्वात् तलः" इत्यभिधानचिन्तामणिस्वोपज्ञटीकायाम् // 3. नारिकेरो लता० नि० //