________________ सटीके निघण्टुशेषे [प्रलो० 178-- "पृश् पालन-पूरणयोः” पृणाति परूषः, “खलि फलि-" [ हैमोणादिसू० 560 इत्यूषः, स्वार्थिके के परूषकः, तत्र / अल्पमस्थि अस्य अल्पास्थि / पृणाति परुषः, "ऋ-पृ-नहि-" [ हैमोणादिसू० 557 ] इत्यादिना उषः / नीलानि पर्णान्यस्य नीलपर्णः, के नीलपर्णकः / परमापिपति परापरः / “पृश् पालन5 पूरणयोः" पृणाति परुः, "रुद्यति-जनि-" [ हैमोणादिसू० 997] इत्युस् / “चिंगट चयने" चीयते चेरुः, “शिग्रु-गेरु-नमेर्वादयः" [ हैमोणादिसू० 811] इति रौ निपात्यते / परि-सर्वतोभावे मण्डलमस्य परिमण्डलः परिमण्डयति वा, "मृदि-कन्दि-कुन्दि-मण्डि-" [हैमोणादिसू० 465 ] इत्यलः / आह च परूषकः परुः प्रोक्तो नीलपर्णः परापरः / 10 परिमण्डलमल्पास्थि परुषं चापि नामतः // ] इति / एतस्य लोके 'फलूहा' इति प्रसिद्धिः // 177 // खर्जूरे त्वग्रजः पिण्डी निःश्रेणिः स्वादुमस्तकः / "खर्ज मार्जने च” चकाराद् व्यथने, खर्जति खर्जूरः, “मी-मसि-पशि-" 15 [ हैमोणादिसू० 427] इत्यूरः, तत्र / [अग्रे जायते अग्रजः।] पिण्डमस्त्यस्य पिण्डी। निष्क्रान्ता श्रेणे:- तरुसमूहाद् निःश्रेणिः, उच्चविटपित्वात् / यदाह निःश्रेणिरधिरोहिण्यां खर्जुरीपादपेऽपि च / [ विश्वलोचने णतृतीये श्लो०६१ ] इति / स्त्रीलिङ्गः / स्वादु-मृष्टं मस्तकमस्य स्वादुमस्तकः / आह च खर्जूरी तु खरस्कन्धा कषाया मधुराऽग्रजा / दुष्प्रधर्षा दुरारोहा निःश्रेणिः स्वादुमस्तका // ] इति / महाखर्जूरिकेयम् / खजूरिकायां स्याद भूमिखजूरी कोकपर्कटी // 178 // 1. त्वग्रुजः नि० // 2 °दपे स्त्रियाम् विश्वलोचने // 3 काककर्कटी नि० //