________________ प्रथमो वृक्षकाण्डः। . पद्मप्रतिकृतिः पद्मकः, “तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः" [ सिद्ध 0 5.1. 54.] इति कः, तत्र / मलते-दधाति मालकः, णकः प्रत्ययः / पीतश्चासौ रक्तश्च पीतरक्तः / चरति मनोऽत्र चारुः, “मि-वहि." [ हैमोणादिसू० 726 ] इति जिंदुः / शोभना प्रभाऽस्य सुप्रभः / सुरभते सुरभिः, “पदि-पठि-" [ हैमोणादिसू० 607] इति बहुवचनादिः / शीतं वीर्यमस्य शीतवीर्यः / पाटयति पाटलः, “मृदि- 5 कन्दि-" [ हैमोणादिसू० 465 ] इत्यलः / पीतं वर्णमस्य पीतवर्णः, स्वार्थिके के पीतवर्णकः / आह चपद्मकं मलयश्चारुः पीतरक्तश्च सुप्रभः / ] इति / एतस्य लोके 'पदमाकु' इति प्रसिद्धिः // 175 // कङ्कष्ठे स्यात् काककुष्ठः पुलकः काकपालकः / - रेचनः शोधनो हासो विडङ्गो रङ्गदायकः // 176 / / कम् इत्यव्ययं कुत्सायाम् , कुत्सितं कुष्ठमस्य कष्ठः, तत्र / काकानां कुष्ठमस्मात् काककुष्ठः / “पुल महत्त्वे" पोलति पुलकः, "धू-धून्दि-रुचि-तिलि-पुलि-" [ हैमोणादिसू० 29 ] इति किदकः / काकानां पालकः काकपालकः / रेचयति 15 रेचनः, विरेचकत्वात् / शोधति शोधनः / “तुस हस हस रस शब्दे" हस्यते हासः। 'विड आक्रोशे' वेडति विडङ्गः, “विडि-विलि-" [ हैमोणादिसू० 101 ] इति किदङ्गः / रङ्गस्य दायको रङ्गदायकः / आह च-- कङ्कुष्ट काककुष्टं तु विडङ्गं रङ्गदायकम् / रेचकं पुलकं हासं शोधनं काकपालकम् // ] इति / एवमेते पुं-क्लीबलिङ्गाः / एतस्य लोकेऽपि 'कमुष्ठ' इत्येव प्रसिद्धिः // 176 // परूषके स्यादल्पास्थि परुषो नीलपर्णकः / परापरः परुश्चेरुः परिमण्डल इत्यपि // 177 // 1. परोपरः परश्चैष परि० नि०॥ 13