________________ सटीके निघण्टुशेषे [श्लो० १६७ईधुकधुकौ" [ हैमोणादिसू० 74 ] इत्यनेन एधुकप्रत्ययः, हवा चासौ गवेधुका च इस्वगवेधुका। "खजु गतिवैकल्ये" खञ्जत्यनया खब्जा / न रिष्यते अनया अरिष्टा / नागानां बलकृद् नागबला / खरः-कठोरो दुःसहत्वाद् गन्धोऽस्त्यस्याः [1 खरगन्धा, सैव खरगन्धना, स्वार्थिके के खरगन्धि(न्धनि)का / आह च गाङ्गेरुकी नागबला खरगन्धनिका रसा / विश्वदेवा तथाऽरिष्टा खञ्जा हस्वगवेधुका // ] इति / एतस्या लोके 'गांगेटी' इति प्रसिद्धिः // 166 // दार्वी दारुहरिद्रायों हरिद्वः कण्टकेरुका / पीतद्रुमः पीतदारुः पीतनं पीतचन्दनम् // 167 // पर्जनी च कण्टकिनी कालीयकः पचम्पचा / दृणाति दावीं, “कृ-वा-पा-जि-" [ हैमोणादिसू० 1] इति उण, गौरादित्वाद् ङीः / दारुहरिद्रा पिण्डहरिद्रातोऽन्या, तस्याम् / हरिः-पीतो द्रुः-स्कन्धोऽस्य हरिदुः। कण्टकान् ईर्ते कण्टकेरुः, "भृ-मृ-तृ-त्सरि-" [ हैमोणादिसू० 716 ] इति 15 बहुवचनादुः, के कण्टकेरुका / पीतश्चासौ द्रुमश्च पीतद्रुमः / पीतं दारु अस्य पीतदारुः। पीतयति पीतनम् / पीतं च तच्चन्दनं च पीतचन्दनम् // 167 // पिपर्ति रोगेभ्यः पर्जनी, “विदन-गगन-"[ हैमोणादिसू० 275 ] इत्यने निपात्यते / कण्टकाः सन्त्यस्याः कण्टकिनी / कालयति दोषान् कालीयः, “गय हृदयादयः" [हैमोणादिसू० 310] इत्यये निपात्यते, स्वार्थिके के कालीयकः / 20 अत्यर्थं पचति पचम्पचा / आह च हरिद्रा पीतिका पिण्डा रजनी रञ्जनी निशा / गौरी वर्णवती पीता हरिता वरवर्णिनी // अन्या दारुहरिद्राऽपि हरिद्रुः पीतचन्दनम् / निर्दिष्टा वै कण्टकिनी स च कालेयकः स्मृतः // कालीयको दारुनिशा दावी-पीतद्रु-पीतिकाः / कटङ्कटेरी पर्जन्या पीतदारुः पचम्पचा // ] इति / एतस्या लोके 'दारुहलद्र' इति प्रसिद्धिः / 1 'यां पीता कटेङ्कटेरिका / नि० // 2 पर्जनी कर्कटकिनी कालेयकः पच० नि.॥