________________ 171] प्रथमो वृक्षकाण्डः। ग्रन्थिपणे श्लिष्टपर्ण विकीर्ण शीर्णरोमकम् // 168 / / हेरितं कुकुरं पुष्पं शुकगुच्छं शुकञ्छदम् / स्थोणेयकं वह्निचूडमारामं ग्रन्थिकाऽपि च // 169 // ग्रन्थिप्रधानानि पर्णान्यस्य ग्रन्थिपर्णम् / ग्रन्थीन् पिपर्ति वा ग्रन्थिमत्त्वात् , "इणुर्वि-शा-वेणि-" [हैमोणादिसू० 182] इति णः, तत्र / श्लिष्टानि पर्णान्यस्य श्लिष्टपर्णम् / विकीर्यते विकीर्णम् / शीर्णानि रोमाण्यस्य शीर्णरोमकम् // 168 // ___ हरति हियते अनेन वा हरितम् , “ह-श्या-रुहि-" हैमोणादिसू० 210] इति इतः / “कुकि वृकि आदाने” कोकते कुकुरम् , “श्वशुर-कुकुन्दुर-" हैमोणादिसू० 426] इत्युरे निपात्यते / पुष्प्यति पुष्पम् , अच् / शुकस्येव गुच्छोऽस्य शुकगुच्छम् / शुकस्येव छदान्यस्य शुकच्छदम् / स्थूणाया इदं स्थौणेयम् , "तस्येदम्" [सिद्ध 0 6. 3. 160] इत्येयण , स्वार्थिके के स्थौणेयकम् / वह्निरिव चूडा अस्य वह्निचूडम् / आरमन्त्यत्र आरामम् / “प्रथुङ् कौटिल्ये" ग्रन्थ्यते ग्रन्थिः, “पदि-पठि-" [हैमोणादिसू० 607 ] इति इः, स्वार्थिके के ग्रन्थिका / “ग्रन्थि इति क्लीबे” इत्यन्ये / प्रन्थिरत्रास्ति ग्रन्थिका, व्रीह्यादित्वादिकः, स्त्रियाम् / क्लीबेऽप्ययम् / यदाह--- ग्रन्थिकं पिप्पलीमूलं ग्रन्थिपर्णकभेषजे / ] इति / आह च स्थौणेयकं वह्निचूडं शुकगुच्छं शुकच्छदम् / विकीर्णं शुकबह च हरितं शीर्णरोमकम् // ] इति / एतस्य लोके 'थूणीयउ' इति प्रसिद्धिः // 169 // स्पृक्कायां ब्राह्मणी पङ्कमुष्टिका पिशुना वधूः / समुद्रान्ता मरुन्माला निर्माल्या देवपुत्रिका // 170 // लेडोयिका कोटिवर्षा देवी पङ्कजमुष्टिका / गोमी स्वर्णलतेन्द्राणी मरुद् माला लता लघुः // 171 // / 1 कुकुरं च तथा गुच्छं शुकपुष्पं शुकच्छदम् / स्थौणेयकं वह्निचूडा सुगन्ध प्रन्थिकावपि // 169 // नि० // 2 लङ्कातिका नि० // 3 मरन्माला नि० // 15 07 25