________________ 10 प्रथमो वृक्षकाण्डः। ङः / मोक्षति- क्षिपति मोक्षः; मुञ्चति वा, “मा-वा-वदि-” [हैमोणादिसू० 564 ] इति सः / मुञ्चति मुञ्चकः। पार्ट-विस्तारं लाति पाटलिः, “नाम्युपान्त्य-" [ हैमोणादिसू० 609] इति बहुवचनात् किदिः / गोभिर्लिह्यते गोलिहः, गोलीढोऽपि / क्षारश्चासौ श्रेष्ठश्च क्षारश्रेष्ठः। कृष्णोऽयं श्वेतश्च / आह च मुष्कको मोक्षको घण्टा मूषको मुञ्चकस्तथा / क्षारश्रेष्ठो गोलिहश्च द्विविधः श्वेत-कृष्णकः // ] इति / एतस्य लोके 'मोषउ' इति प्रसिद्धिः // 164 // वंशे यवफलो वेणुः शतपर्वा तृणध्वजः। मस्करस्त्वचिसारस्त्वक्सार-कार-तेजनाः // 16 // वमति वंशः, “पा-दा-वमि-" [हैमोणादिसू 0 527 ] इति शः; "वन्यते वंशः” इति क्षीरस्वामी, तत्र / यवाकारं फलमस्य यवफलः / अजन्त्यनेन वेणुः, पुंल्लिङ्गः, “अजि-स्था-" [हैमोणादिसू० 768 ] इति णुः / शतं-बहूनि पर्वाण्यस्य शतपर्वा / तृणानां ध्वज इव तृणध्वजः। माक्रियते-प्रतिषिध्यते अनेन मस्करः, वर्चस्कादित्वात् साधुः / त्वचि सरति त्वचिसारः, “सृ स्थिरे" [पाणिनि० 15 3.3.12] इति घञ् , “तत्पुरुषे कृति" [ सिद्ध 03.2.20] “बहुलम्" [सिद्ध० 5. 1. 2.] इति सप्तम्या अलुक् , लोपे त्वक्सारः / कर्म इयर्ति कारः। तेजयति तेजनः। आह च वंशो वेणुर्यवफलः कर्मारस्तृणकेतुकः / त्वक्सारः शतपर्वा च मस्करः कीचकस्तथा // 20 ] इति / एतस्य लोके 'वांसु' इति प्रसिद्धिः // 165 // गाङ्गेरुक्यां विश्वदेवा झषा स्वगवेधुका / खजारिष्टा नागबला खरगन्धनिकेत्यपि // 166 // गाङ्गमीरयति पवित्रत्वाद् गाङ्गेरुकी, “कञ्चुकांशुक-'' [हैमोणादिसू० 57] 25 इत्युके निपात्यते, तस्याम् / विश्वे दीव्यति विश्वदेवा / झषति-हिनस्ति गन्धेन झपा, अच् / हस्वा-लघ्वी, गवि-जले एधते गवेधुः, "भृ-मृ तृ-त्सरि-" [हैमोणादिसू० 716] इति बहुवचनादुः, स्वार्थिके के गवेधुका, गूयते गवेधुका इति वा, "गुङ 1 विश्वदेवदेवा ह्रस्वाङ्गवेधुका / खण्डारिष्टा नागबला स्वरबन्धनिकेत्यपि // 166 // नि० // 2 ह्रस्वा गवेधुका पु 1 पु 2 //