________________ सटीके निघण्टुशेषे [श्लो० १६३“णहीच बन्धने" नह्यति व्याधिं नहुषः, “ऋ-पृ-नहि-" [ हैमोणादिसू० 557 ] इत्युषः / नृन् पाति नृपः / आह च तगरं कुटिलं वक्र दीनं जिलं नतं शिवम् / कालानुसार्थमनृजु कुञ्चितं नहुषं नृपम् // ] इति / पुं-क्लीवलिङ्गा एते / लोकेऽप्येतस्य ‘तगर' इत्येव प्रसिद्धिः // 162 // तूले नूदं ब्रह्मदारु ब्रह्मण्यं ब्रह्मकाष्ठकम् / ब्रह्मनिष्ठं च यूपं च क्रमुकं ब्रह्मचारि च // 163 // "तूल निष्कर्षे' तूल्यते तूलम्, तूलीति गौडः, तत्र / “णुदत् प्रेरणे" नुद्यते 10 नूदम्, पृषोदरादित्वात् / ब्रह्मणो दारु ब्रह्मदारु / ब्रह्मणि-वैदिके साधु ब्रह्मण्यम् "तत्र साधौ” [ सिद्ध 0 7.1.15] इति यः / ब्रह्मणः-वैदिकस्य काष्ठं ब्रह्मकाष्ठम्, स्वार्थिके के ब्रह्मकाष्ठकम् / ब्रह्मणो निष्ठाऽत्र ब्रह्मनिष्ठम् / यूपप्रतिकृतित्वाद् यूपम् / क्रामति क्रमुकम् , "क्रमेः कृम् च वा" [हैमोणादिसू० 53] इत्युकः / ब्रह्म चरतीत्येवंशीलं ब्रह्मचारि / आह च15 तूलं नूदं च यूपं च क्रमुकं ब्रह्मकाष्ठकम् / ब्रह्मदारु ब्रह्मनिष्ठं ब्रह्मण्यं ब्रह्मचारि च // ] इति / अन्योऽप्याह नूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च // तूलं च [अमर० का० 2 वर्ग 4 श्लो० 41-42] इति / एतस्य लोके 'पद्मनस' इति प्रसिद्धिः // 163 // मुष्कके मूषको घण्टा झाटलो मोक्ष-मुश्चकौ। पाटलिट्रेलिहः क्षारश्रेष्ठः, कृष्णः सितश्च सः // 164 // मुष्णाति रोगान् क्षारत्वात् मुष्कः, “विचि-पुषि-" [हैमोणादिसू० 22 ] 25 इति कित् कः, स्वार्थिक के मुष्ककः, तत्र / “मूष स्तेये" मूषति मूषकः, णकः प्रत्ययः / हन्यते घण्टा, “घटा-घाटा-घण्टादयः" [ हैमोणादिसू० 141] इति टे निपात्यते / झाट सङ्घातं लाति झाटलः, “कचित् " [सिद्ध 0 5. 1. 171] इति 1 मोक्षको घण्टा क्रन्दालो मोक्ष नि०॥