SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 162] प्रथमो वृक्षकाण्डः। तुम्बुरुः सारसः सौरो वनजः सानुजोऽग्निकः / तीक्ष्णवल्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः // ] इति / लोके एतस्य 'तुम्बुरु' इति प्रसिद्धिः / कदल्यां तु हस्तिविषा रम्भा मोचांशुमत्फला // 161 // काष्ठीला वारणबुसा स्यात् कोलीरस इत्यपि / कदिः सौत्रः, कद्यते कदली, "मृदि-कन्दि-" [ हैमोणादिसू० 465 ] इत्यलः; केन- वायुना दल्यते वा, स्त्रीलिङ्गः, तस्याम् / “के दलमस्यास्तीति वा, इन्नन्तोऽयम्" इत्यमरटीका इत्यपि / हस्तिनां विषमिव हस्तिविषा / रमन्ते अस्यां रम्भा, "ग-द-रमि-" [ हैमोणादिसू० 327] इति भः; "रभुङ् शब्दे” रम्भन्ते इति वा / 10 मुञ्चति त्वचं मोचा / अंशुमन्ति फलान्यस्या अंशुमत्फला भानुफलाख्या // 161 // ईषद् अष्ठीलमस्याः काष्ठीला, “अल्पे" [सिद्ध० 3. 2. 136 ] इत्यनेन ईषदर्थे वर्तमानस्य कुशब्दस्य कादेशः / काष्ठीरा इत्यपरे / वारणानां-हस्तिनां बुसःघासः वारणबुसा / वारणविशेषेत्येके / कोल्या रस इव रसः-स्वादोऽस्य कोलीरसः। आह च 15 कदली सुकुमारा च रम्भा भानुफला मता / काष्ठीरसश्च निस्सारा मोचा हस्तिबुसा तथा // ] इति / अमरोऽप्याहकदली वारणबुसा रम्भा मोचांशुमत्फला / 30 काष्ठीला [ का० 2 वर्ग 4 श्लो०११३ ] इति / कदलीनामानि / लोके 'केलि' इति प्रसिद्धिः / तगरे कालानुसार्य चक्राख्यो नहुषो नृपः // 162 // "तगु गतौ" तङ्गयते तगरः, “जठर-क्रकर" [हैमोणादिसू० 403 ] इत्यरे निपात्यते, तत्र / काले अनुस्रियते कालानुसार्यम् ; कालमनुसरति शीतोष्णाभ्यामिति वा / वक्र इत्याख्याऽस्य वक्राख्यः / तेन कुटिल: जिह्म इत्यादयोऽवसेयाः / 1 °वुशा स्यात् काली° नि०॥ 2 निस्सारो पु 2 // 3 चक्राख्यो मधुरो नृपः नि०॥ 12
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy