________________ सटीके निघण्टुशेषे [ श्लो० १६०दन्त्यान्तोऽयम् / “उश्यते-काम्यते वाशेति तालव्यान्तः” इत्यमरः / वासैव वासिका / "उश्यते-काम्यते वाशिका" इत्येके, तालव्यमध्योऽयम् / वाजिनः-अश्वस्येव दन्ता अस्य वाजिदन्तकः // 159 // भिषजां-वैद्यानां मातेव भिषग्माता / सिंहस्येव मुखमस्य सिंहमुखः / हिनस्ति 5 रोगान् सिंहः, स्वार्थिके के सिंहिका / सिंह इव पर्णान्यस्याः सिंहपर्णी, के सिंहपर्णिका / आहुश्च वैद्यमातृ-सिंहचौ तु वाशिका / वृषोऽटरूषः सिंहास्यो वासिका वाजिदन्तकः // [ अमर०का० 2 वर्ग 4 श्लो०१०३ ] इति / 10 अन्योऽपि वासिका सिंहकर्णी च वृषो वासा च सिंहिका / आटरूषः सिंहमुखी भिषग्माताऽटरूषकः // ] इति / आटरूषनामानि / लोके 'अरडूसा' इति प्रसिद्धिः / तुम्बुरौ सानुजः सौरः 'सारसो वनजोऽग्निकः // 160 // तीक्ष्णवल्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः। "तुबु अर्दने" तुम्बति तुम्बुरुः, “तुम्बेरुरुः" हैमोणादिसू० 817] इति उरुः, तत्र / सानौ जातः सानुजः, "क्वचित्" [ सिद्ध० 5. 1. 171] इति डः / सूरस्यायं सौरः, "तस्येदम्" [सिद्ध० 6. 3. 160 ] इत्यण् / सरसि भवः सारसः, 30 "भवे" [सिद्ध 0 6. 3. 123 ] इत्यण् / वने जातो वनजः, "क्कचित्" [सिद्ध 5.1. 171] इति डः / अग्निरिव अग्निकः, “तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः" [सिद्ध 0 7. 1. 108 ] इति कः // 160 // तीक्ष्णं वल्कमस्य तीक्ष्णवल्कः। तीक्ष्णानि फलान्यस्य तीक्ष्णफलः / तीक्ष्णानि पत्राण्यस्य तीक्ष्णपत्रः / महांश्चासौ मुनिश्च महामुनिः / आह च 1 सौरभो वनजोऽन्धकः नि० // 2 वनजोऽन्दकः पु 1 पु 2 //