SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 160] प्रथमो वृक्षकाण्डः। भद्रा, "भन्देर्वा” [ हैमोणादिसू० 391] इति रो न लोपश्च / चन्दनबीजप्रतिकृतिः चन्दनबीजिका, “तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः' [ सिद्ध 0 7.1. 108 ] इति कः // 157 // वन्दायां स्यात् तेटरुहा शेखरी पादरोहणी / वृक्षादनी वृक्षरुहा जयन्ती कामपादपः // 158 / / वन्द्यते वन्दा, भिदादित्वादङ्, तस्याम् / तटे रोहति तटरुहा, "नाम्युपान्त्य-” [ सिद्ध० 5. 1. 54 ] इति कः / शेखरोऽस्त्यस्य शेखरी / पादे रोहति पादरोहणी, अनट् / जन्मना वृक्षमत्ति वृक्षादनी, अनट् / वृक्षे रोहति वृक्षरुहा / जयति जयन्ती, "तृ-जि-भू-वदि-" [ हैमोणादिसू० 221] इति टिदन्तः / कामस्य पादपः कामपादपः / आह च -- वन्दाका स्याद् वृक्षरुहा शेखरी कामवृक्षकः / वृक्षादनी तटरुहा कामिन्यध्रिप्ररोहणी / / . [ ] इति / एतस्या लोके 'कामवृक्षा वैन्दा वा' इति प्रसिद्भिः // 158 // स तु क्षीरवृक्षभवो नन्दीमुखो जयद्रुमः / 'तुः' पुनरर्थे / 'सः' वन्दावृक्षः क्षीरवृक्षे भवति क्षीरवृक्षभवः / नन्दी मुखेऽस्य नन्दीमुखः / जयस्य द्रुमो जयद्रमः / वन्दाभेदोऽयम् / आटरूषे वृषो वासा वासिका वाजिदन्तकः // 159 // भिषग्माता सिंहमुखः सिंहिका सिंहपर्णिका / आ–समन्ताद् अटति आटरूषः, “कोरदूषा-ऽऽटरूष-" [हैमोणादिसू० 561] 20 इत्यूषे निपात्यते; "रूषण रूक्षण-व्याप्त्योः " अटन् रूषयतीति अटरूषः, पृषोदरादित्वादित्यपि, तत्र / “वृषू सेचने” वर्षति मधु वृषः, “नाम्युपान्त्य-" [ सिद्ध 0 5. 1. 54] इति कः, पुंस्ययम् , स्त्रियामित्यपरे / वाति-गच्छति श्लेष्मा अनया वासा, स्त्रीलिङ्गोऽयम् , “मा-वा-वदि-" [ हैमोणादिसू० 564] इति सः, 1 तरुरुहा शौरवर्यदरोहिणी / वृक्षादनी वृक्षभक्ष्या जय° नि० // 2 रुद्राक्षादीनां वन्दा, वटादीनामपि पुर टिप्पणी॥ 3 "रूषणू रूक्षण् व्याप्तौ" अ° पु२ // 15
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy