________________ 148] प्रथमो वृक्षकाण्डः / उदकीयस्तृतीयोऽन्यः षड्ग्रन्थो हस्तिवारणी / अङ्गारवल्ली शाङ्गेस्था काक(? सन्नी करतालिका // [ ] इति / करञ्जभेदा अमी // 146 // रोहीतके रोहितको रोही दाडिमपुष्पकः / रोहेडकः सदापुष्पो रोचनः प्लीहरक्तहा // 147 // पिण्डिभ्य ईतकः” [ हैमोणादिसू० 79 ] इतीतकः, तत्र / "हृ-श्या-रुहि-शोणि-पलिभ्य इतः” [ हैमोणादिसू० 210 ] इतीते प्रत्यये रोहितः, स्वार्थिक के रोहितकः / रोहयत्यवश्यं रोही, “णिन् चावश्यका-" [सिद्ध 0 5. 4. 36 ] इति णिन् / 10 दाडिमपुष्पाणीव पुष्पाण्यस्य दाडिमपुष्पः, “उष्ट्रमुखादयः" [सिद्ध० 3.1.23 ] इति समासः, स्वार्थिके के दाडिमपुष्पकः / रोहति रोहेडः, “विहड-कहोड-" हैमोणादिसू० 172] इत्यडे निपात्यते, के रोहेडकः / सदा पुष्पाण्यस्य सदापुष्पः / रोचयति रोचनः / प्लीह-रक्ते हन्ति प्लीहरक्तहा / 'प्लीहहा रक्तहा' इत्यपरे / आह च रोहितको रोचनकः प्लीहघ्नो रक्तपुष्पकः / . ] इति / एतस्य लोके रोहीडउ' इति प्रसिद्धिः // 147 // / कट्फले तु सोमवल्कः कैडर्या गोपभद्रिका / कुम्भी कुमुदिका भद्रा श्रीपर्णी भद्रवत्यपि // 148 // कटति-आवृणोति कषायत्वात् विपि कट् , इदृक् फलमस्य कट्फलः, तत्र / सोमस्येव वल्कमस्य सोमवल्कः। कं-रसमीट्टे-स्तौति कैडर्यः, “शिक्या-ऽऽस्या-ऽऽव्य-" [हैमोणादिसू० 364 ] इति ये निपात्यते ; "अविभावितप्रकृति-प्रत्ययार्थोऽयं वा" इति क्षीरस्वामी / द्वयर्थे कैडर्यः कट्फलो मदनफलं च / गोपानां भद्रिकेव गोप 25 भद्रिका / कुम्भी रसाधारत्वात् / कुमुदप्रतिकृतिः कुमुदिका कौ मोदते वा / भद्र 1 रोहडकः नि० // 2 रोचना नि० //