SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ सटीके निघण्टुशेषे [श्लो० १५५नाशयति कलिनाशकः / अत एव कलिमारकः // 144 // पूतिः- दुर्गन्धः स चासौ करञ्जश्च पूतिकरञ्जः। गौरः श्वेतत्वात् / सुष्ठु मनोऽस्य सुमनाः / घृतवन्ति पर्णान्यस्य घृतपर्णः, के घृतपर्णकः / यद् इन्दुः करञ्जो नक्तमालश्च पूतिकश्चिरिबिल्वकः / घृतपर्णः करजोऽन्यः प्रकीर्यो गौर एव च // पूतिकरञ्जः सुमनास्तथा कलहनाशनः / ] इति / अन्योऽपि चिरिबिल्वो नक्तमालः करजश्च करञ्जके // प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः / [अमर० का० 2 वर्ग 4 श्लो० 47-48 ] इति / करञ्जनामानि / लोके 'करञ्ज्यउ' इति प्रसिद्धिः / भेदास्त्वस्य त्रयस्तत्र षड्ग्रेन्थे हस्तिवारणी // 14 // 'अस्य' करञ्जस्य त्रयो भेदाः / 'तत्र' भेदत्रिके षड् ग्रन्थयोऽस्य षड्ग्रन्थः, 15 पृषोदरादित्वात् साधुः, तस्मिन् / हस्तिनं वारयति हस्तिवारणी // 145 // मर्कटयां तु कृतमालः उदकीयः प्रकीर्यकः / मर्दयति अङ्गपाटनाद मर्कटी, “कपट-" [ हैमोणादिसू० 144 ] इत्यटे निपा- . त्यते; मर्किः सौत्रः, मर्कति वा मर्कटी, "दिव्यवि-" [ हैमोणादिसू० 142 ] इत्यटः, स्त्रीलिङ्गः, तस्याम् / कृतम् आलम्-अनर्थोऽनेन कृतमालः। उत्कीर्यते उदकीयः, 20 पृषोदरादित्वात् / प्रकीर्यते प्रकीर्यः, के प्रकीर्यकः। अङ्गारवल्ल्यां शाङ्गस्था कासनी करतालिका // 146 // अङ्गार इव वल्लयोऽस्य अङ्गारवल्ली, तस्याम् / शाङ्गै तिष्ठति शार्ङ्गस्था, "स्थापा-स्ना-त्र:-" [सिद्ध 0 5.1.142 ] इति कः / कासं हन्ति कासनी। करं ताडयति करताली, ड-लयोरैक्यात्, [स्वार्थिके के करतालिका ] / आह च 1 * प्रन्था हस्तिवारुणी मि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy